Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
इत्थं दिनेषु गच्छत्सु सर्वेश्वरनामा सूरिवधिज्ञानी तत्रागतः । राजापि च तं वनपालपर्धावनिकाद्वारेण तत्र समवसृतं ज्ञात्वा समेत्य च नत्वा च पप्रच्छ तर तद्व्यन्तरमारिकारणम् । गुरुणोक्तं तत्सर्वं पूर्वभववक्तव्यं, कथान्ते च सोऽप्यागतः । तत्रोपविष्टयोरुभयोमिथ्यादुःकृतं जातम् । गुरुदृष्ट्या क्षमामृतवर्षिण्या तयोः कोपप्रलयोऽभवत् । अत्रान्तरे तस्य सूरेरपि केवलज्ञानं प्रादुरास सकल - घातिकर्मक्षयात् । ततो देवैः केवलमहोत्सवश्चके । तत: सर्वप्रत्यक्षं तेन भूतानन्दनाम्ना व्यन्तरेण पृष्टं गुरुसमीपे, कथमहं नि:पापो भवेयम् ? । गुरुरपि चाह- अविरतिगुणस्थानक्यपि भवान् सम्यग्दष्टिर्भवतु । सर्वपापापहारनामानं देवं आनीय स्थापयित्वाऽत्र नगरे समाराधय पूजया । तेन चोक्तम् - वास्ते तद्देवबिम्बम् ? । महाकुरलदेशे मानससर:समीपे कालकूटगिरौ मदनोन्मादकुण्डतीरस्थस्याशोकवृक्षस्याधः । पुनस्तब्दिम्बं कामकुञ्जरनाम्ना कामकेलिदुर्ललितेन ग्रस्तं देवेनाऽस्ति । अन्यच्च सोऽपि कामकुञ्जरनामा देवो विहितपरदारास्वीकारविकाराद हतौजा बाहुबलिनामदेवेन तदपहतस्त्रीपतिना स्व(श्व)स्तनदिने प्रभाते 'युद्धं देहि मे रे पाप!' इत्युक्तः स्कन्धलगुडाहतो लुलितदृष्टिगतिस्खलितो भविष्यति । तस्मिन्नवसरे हे भूतानन्द ! व्यन्तरेश्वर ! तत्र गत्वा बुद्धिसूत्रेणैव तद्विम्बमत्रानय, श्री जिनशासनप्रभावनां विरचय । एतन्निशम्य तेन तत्कर्म तथा कृतं बिम्बमुत्पाट्यानीतं पादुकायुगं अग्रस्थं तत्रैव स्थाने तस्थौ । अद्यापि तत्र देशे सर्वपापहरपादुकायुगं सर्वलोकदैवतं प्रसिद्ध अस्ति । राज्ञाऽपि च श्रावकत्वं प्रपेदे । व्यन्तरस्तु राज्ञः सखा जातः । राज्ये(ज्यं) कुर्वन् काले मृत्वा दिवं ययौ ।
एष कृष्णमहीपालप्रबन्धः कथितो मया । एकोनविंशतिमितः, चरिते स्तम्भनप्रभोः ।।
(प्रबन्धः २०) विराजन्ते न शास्त्राणि, सत्तत्त्वार्थोज्झितानि च । अजलानि सरांसीवाऽजीवानीव वपूंष्यपि ॥ १ ॥
मालवदेशे अवन्त्यां त्रिविक्रमो राजा । रत्नादेवी प्रिया । तस्य पुत्रः शार्दूलनामा सर्वव्यसनाकरो जातः । राज्ञा निर्वासितः स्वदेशात्स पुत्रः । रुलन गजपुरे स गतः । तत्र द्यूतादिसप्तकुत्र्यसनकोटिभिः कदर्थ्यमानो लब्धव्यसनाकरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60