Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 44
________________ 44 (प्रबन्धः २६) काले गच्छति हस्तिनागपुरात् तत् श्रीजिनराजबिम्बं समुत्पाट्य शक्रेण देवलोके नीतं तत्र पूजितभक्त्या पूर्वभववात्सल्यात् इन्द्रस्य महती भक्तिरभूत् । अयमेव महाधर्मः इदमेव परं तपः । इदमेव परं ब्रह्म यद्भक्तिजिनशासने । श्रीरामचरित्रे कथोल्लेखोऽयं - विशेषकार्येण श्रीरामेण दण्डकारण्ये गतेन चिन्तितं चेति सीतया सार्धम् - "यदि सामग्री स्यात् बिम्बस्य तदा पूज्यते जिनेन्द्रः हे प्रिये ! ।" इत्युक्तेरन्त एव वज्रिणा सार्मिकगौरवेण अवधिज्ञाने[न] तन्महापुरुषमनोरथं ज्ञात्वा तत्रिजं बिम्बं सर्वदुःखनिवारणं नाम देवतावसरात् स्वस्मात् आनीयार्पितम् । सप्तमासदिननवकं पूजितम् । व्याघुट्य जिगमिषातरलतया श्रीरामेण सीतया च समर्पितं इन्द्रस्य । सीताऽपि तृतीये दिने तद्दिनाद् रावणेन जहे। श्रीरामस्य प्रबन्धोऽयं, द्वित्रयोदशसंख्या । स्तम्भनेन्द्रपुराणेऽस्मिन्, सर्वोपप्लवहारिणि ।। ॥ ***** (प्रबन्धः २७) बोधिः समाधिः परिणामशुद्धिः, स्वात्मोपलब्धिः शिवसौख्यसिद्धिः । चिन्तामणि चिन्तितवस्तुदाने, त्वां वन्दमानस्य ममास्तु देव ! ॥ १ ॥ द्वारकानाथस्य चरित्रोल्लेखो ज्ञेयः । तथा च कृष्णो राजा नवमो वासुदेवः नवमप्रतिवासुदेवरणे सञ्जाते सति स्वसैन्यजीवनार्थं शक्रादेशेन चमरेन्द्रेण समर्पितं कृष्णमहाराजस्य पार्श्वनाथबिम्बम् । आसनं च कृत्वा स्थापितम् । तस्य स्नानाम्भसा नीरुक् समजनि सर्वं यादवेन्द्रसैन्यम् । गूर्जरदेशमध्ये तदा प्रभृति शङ्केश्वरनगरं प्रतिष्ठितम्, यत्र भूमौ स्थित्वा जरासिन्धुचक्रेणैव प्रतिमुक्तेन जरासिन्धुशीर्षं छिन नारायणेन । जाते जयवादे हरिणा पूर्वं करचटितः पाञ्चयज्ञः(जन्यः) पूरितः । जिते सति कृष्णेन द्वारकायां पुरी आत्मसमं नीतम् । तत्र प्रासादे पूजितम् । मूलस्थानकं तत्रैव । स्थटकं सपादुकायुग्मं तत्रैव पञ्चालदेशमध्ये स्थितम् । तदद्यापि सर्वलोकस्य दैवतं जातम् । मूलथाणनामा देवः कुष्टादिरोगहन्ता निर्मलदेहदाता प्रथितः श्रूयते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60