Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
55 प्रभावकपरम्परायां श्रीचन्द्रगच्छे श्रीसुविहितशिरोऽवंतसवर्धमानसूरिनामा वढवाणनगरे विहारं कुर्वनाययौ । लब्धसोमेश्वरस्वप्न(प्न:) सोमेश्वरनामा द्विजाति: प्रभाते वर्धमानसूरिरूप ईश्वरोऽयं साक्षादेष भगवानाचार्यः इति स्वप्नादेशप्रमाणेन प्रतिपद्य स्वां यात्रा सम्पूर्णां मन्यमानो आचार्यान्तिके शिष्यो जातः । पदेऽभिषिक्तः । काले जाते जिनेश्वरसूरिनामा तस्य शिष्यः श्रीमदभयदेवसूरिनवाङ्गवृत्तिकारः । सोऽपि कर्मोदयेन कुष्ठी जातः । श्रुतदेवतादेशात् दक्षिणदिग्विभागात् धवलिक्के समागत्य सङ्घ यात्रया श्रीस्तम्भनायकं प्रणन्तुं स सूरिरागतः । ११३१ वर्षे श्रीस्तम्भनायकः प्रकटीकृतः । प्रतिदिनग्रामभट्टकपिलया गवा निजोधस्य क्षरत्पयोधारया सञ्जायमानस्नपनस्वरूपोऽभूत् । तदा च श्रीमदभयदेवसूरिणा जयतिहुयणद्वात्रिंशतिका सर्वजिनशासनभक्तदैवतगणप्रौढप्रतापोदयात् गुप्तमहामन्त्राक्षरा पेठे । षोडशे च काव्ये स सूरिरशोकबालकुन्तलसमपुद्गलश्रीरजनि | स्वामी च पलाशवृक्षमूलात् आविरास । ततः शासनप्रभावको जातः । १३६८ वर्षे इदं च बिम्बं श्रीस्तम्भतीर्थे समायातं भविकानुग्रहणाय । इत्थं कालापेक्षया नानाभक्तैः नानानामग्राहं नाना भक्त्या पूजितोऽयं परमेश्वरः सर्वार्थसिद्धिदाता जातस्तेषाम् ।
द्वात्रिंशता प्रबन्धैर्बद्धं श्रीस्तम्भनाथचरितमिदम् । यत्र द्विषोडशोऽभूद्, बन्धोऽभयदेवसूरिकथा ॥
इत्थं अमन्दजगदानन्ददायिनी आचार्य श्रीमेरुतुङ्गविरचिते देवाधिदेवमाहात्म्यशास्त्रे श्रीस्तम्भनाथचरित्रे द्वात्रिंशत्प्रबन्धबन्धुरे द्वात्रिंशत्तमः प्रबन्धः समर्थितः । समाप्तं चेदं श्रीस्तम्भनाथचरितम् ।।
प्रशस्तिः ।। स्वस्तिश्रीनृपविक्रमकालादेकोत्तरे-कृतिम् । चतुर्दशशते वर्षे, रवियोगे त्रयोदशे ।। कार्तिके मासि सकायां, गुरुवारे स्थितोदये । कल्याणकारणं स्तम्भनाथस्य चरितं मुदा ।। सूरिश्री मेरुतुङ्गेण, वादिहव्यकृशानुना । वादिवेश्याभुजङ्गेन, श्वेतवस्त्रांहिरेणुना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60