Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
56
येनेदं पठ्यते सर्वसमक्षं राजपर्षदि । अङ्गीकृत्य प्रतिज्ञानां, सप्तकं च सुदुर्वहम् ॥ सभायां बाहुमुद्धृत्य, जिनशासनवैरिणः ।
एकया वेलया सर्वे, वियन्ते जयवादिना ।। अन्यच्च -
दम्भप्रोद्भटवादिशेखरमतोपन्यासविन्यासत - च्छेदाभ्युच्छलदन्धकारपरशुर्वादीन्द्रवेश्यापतिः । स्याद्वादर्थविरोधिसिन्धुरशिरःसञ्चारपञ्चाननः, पत्रालम्बनमातनोति जगति श्रीमेरुतुङ्गो गुरुः ।।
यस्येत्थं कीर्तिविलसति विदुषां मुखेषु, अन्यच्च -
मलधारिंगच्छनायकसूरिश्रीराजशेखरप्रमुखैः ।
गणभृद्भिर्गुणवद्भिर्ग्रन्थोऽयं शोधितः सकृपैः ।। अन्यच्च
इहोत्सूत्रं भवेत् किञ्चित्, प्रमादात्पतितं मम । शोधयन्तु कृपां कृत्वा, तदवयं बहुश्रुताः ।। यावल्लवणसमुद्रो, यावन्नक्षत्रमण्डितो मेरुः । दिनपतिरुदेति यावत्, तावदिदं जयतु जिनचरितम् ॥
संवत् १४२४ वर्षे भाद्रपदकृष्णतृतीयायां गुरौ श्रीस्तम्भनेन्द्रप्रबन्धपुस्तकं लिषितं तपश्चिगच्छनायकश्रीरत्नाकरसूरिशिष्यगणिमिश्रपद्यकीर्तिः पण्डितमिश्रसाधुमूर्तिमिश्राणामपरोधेन भक्त्या च ॥ छ ।
तत्त्वसार्थकसमाधिजन्मभिस्तापसैर्मुनिभिरस्ततामसैः । साम्प्रतं च विकले कलौ युगे, शासनं जिनपतेविभूषितम् ।। शारदेन्दुकिरणैकसौदरे:, साधुमूर्तिविलसद्गुणाकरः । कं नरं विबुधवर्गशेखरं, नो न रञ्जयति रङ्गसागरः ॥ नभ इव नभो विशालं, सागर इव सागरस्तु गम्भीरः । श्रीमदभयदेवगुरोः नवतप इव नवतपो जयति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60