Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 54
________________ 54 जातम् . ग्रामोऽप्यनेन नाम्ना विख्यातो जातः इति श्रूयते । आनन्त्यादिह कालस्य, प्रबन्धानामनन्तता । तथाऽप्यमी प्रबन्धास्तु, द्वात्रिंशत् प्रकटीकृताः ॥ घटितस्त्वं न केनाऽपि, खानिमध्यान्न चोद्धृतः । स्वयं सिद्धः पुरा पञ्चधनुःशततनून्नतः ॥ वितस्तिमात्रो भविता, श्री पार्श्वः स्तम्भनायकः । युगप्रधाने सूरिश्रीदुःप्रसभे प्रवर्तति ॥ पद्मनाभोदये जाते, पुनर्वपुःसमुन्नतिः । धनुःपञ्चशतीगात्रः पुनरेष भविष्यति ।। भरते प्रलयाक्रान्तेऽङ्गुष्ठमात्रतनुः प्रभुः । कृतमालनाट्यमालाभ्यां, पूजावान्भविष्यति ।। वार्तेयं घट्यमानापि, दुर्घटा घटतां कथ् । पद्मावतीप्रभावेण, सत्यं सम्भाव्यतेऽखिलम् ॥ निरवद्या महाविद्याः, पार्षद्याः ! श्रूयतामिदम् । देवेन्द्रस्तवसङ्केताद्रहस्यं प्रकटीकृतम् ।। नागार्जुनप्रबन्धोऽयमेकत्रिंशत्तमोऽजनि । चरिते स्तम्भनाथस्य, सर्वकल्याणकारिणि || || ***** (प्रबन्धः ३२) अमेयगुण ! वामेय ! प्रभावविभवः (व!) प्रभुः(भो!) । अदम्भस्तम्भसंरम्भस्तम्भनायक ! पाहि माम् ।। १ ।। कलिकालकालियाहिकालकूटामृताकर ! परिभूतमरित्रातैः, पाहि मां स्तम्भनायक ! ॥ २ ॥ आजन्मामुद्रदारिद्यसमुद्रावर्तपातिनम् । कान्ततीर्थकृतो लक्ष्म्याः पाहि मां स्तम्भनायक ! || ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60