Book Title: Stambhanadhish Prabandh sangraha Bhumika
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 46
________________ 46 I हरिणा तदा लोकैरिति कथितं देवो देवेन सार्धं ययौ । पुनरिहैव मूलस्थानं तस्थौ अतोऽस्माकं मूलस्थाननामा देव एष जातः । शङ्खश्वरे यदधुना बिम्बं पूज्यते पुण्यवद्भिः एतत् स्तम्भनायक बिम्बपरावर्तेन हरेरुपरोधेन धरणेन्द्रेण स्वदेवालयात मुक्तं ज्ञातव्यं तत्त्ववेदिभिः नात्र भ्रान्तिर्विचार्या । "जोणीपाहुडभणिओ संकेओ एस मे नेयो।" इतीदमस्ति मोक्तं तत्त्वं पुनः केवलिनो विदन्ति ॥ सूरिगणा भूरिगुणा, क्षन्तव्यं दुर्वचो मम । उत्सूत्रपात भीतस्य, मिध्यादुः कृतमस्तु मे ॥ १ ॥ नारायणप्रबन्धोऽयं सप्तविंशतिमोऽजनि । गभीरे चार्थगहने, स्तम्भेशचरितेऽन्तय ॥ २ ॥ Jain Education International ***** ( प्रबन्धः २८ ) यः परमात्मा परं ज्योतिः परमः परमेष्ठिनाम् । आदित्यवर्णस्तमसः, पुरस्ताद् यः पुनातु वः || १ ॥ सुराष्ट्रादेशमध्ये द्वारमत्यां दग्धायां रामकृष्णयोर्निर्गतयोर्द्वारकादाघात् जीवमानयोः पुनरब्धिनीरेण द्वादशयोजनप्रमाणायां नगरभूमौ प्लावितायां एकार्णवीभूते भूतले नगरमध्यस्थितराजप्रासादस्थो न जज्वाल देवोऽयं, पयसाऽपि च प्लावितो नासौ देवः । तत्र समये वरुणः प्रतीचीपतिस्तं देवं गृहीत्वा स्वगेहे देवालये एकं दिनं अपूजयत् । पुनरपि देवादेशाद् देवालयाद् द्वारकापुरीमध्यगते कृष्णकारिते प्रासादे जलान्तः स्वेन करेण मुक्त: वरुणेन । अपि च एनमेव बिम्बं पूर्वं एकादशलक्षाणि वर्षाणां वरुणः पूजयामास । अन्यच्च अशीतिसहस्राणि वर्षाणां तक्षकोऽचितवान् एनं देवम् । षष्टिसहस्रवर्षाणि पद्मावती आराधयामास च । दशसहस्त्राधिकानि षष्टिवर्षसहस्राणि सुस्थितलवणाधिपतिः समुद्रस्य नाथः पूजयति स्म परमेश्वरं चैनम् । किं बहुना ? सकलपाताललोके हटकेश्वरीकलानाथः हटकेश्वरनाम लिङ्गं चतुरशीतिपत्तनेषु नागमते प्रसिद्धं तत्रापि देवोऽयं समाराधितो नागलोकनिवासिभिः इत्थमनेके पूजाप्रबन्धाश्चास्य प्रभोः । न देयं दूषण मह्यं, कदा कोऽपि विपर्ययः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60