Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 309
________________ षष्ठाध्यायस्य तृतीयः पादः ॥ २८९ 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । योगविभागात् मोऽन्तः । कर्मन्देन प्रोक्तं भिक्षुसूत्रं विदन्त्यधीयते वा = कर्मन्दिनः । अनेन इनप्र० । उभयत्र 'तद् वेत्त्यधीते (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा जस् । [काश्विकम्] कृशाश्विन् मण्ड्यते । कृशाश्विनां धर्म:-आम्नायः-सङ्घो वा = काश्विकम् । 'चरणादकञ्' (६।३।१६८) अकप्र० → अक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आर् । 'नोऽपदस्य तद्धिते' (७४।६१) इन् - लोपः । [कार्मन्दकम् ] कर्मन्दिन् मण्ड्यते । कर्मन्दिनां धर्म:-आम्नायः-सको वा = कार्मन्दकम् । 'चरणादकञ्' (६।३।१६८) अकप्र० → अक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'नोऽपदस्य०' (७४/६१) इन्लोपः । बाहुलकात् दीर्घत्वम् (क्लीबत्वम्) । [कापिलेयिनो नटाः] कपिलाया अपत्यं = कापिलेयः । 'ङ्याप्त्यूडः' (६।१७०) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । कापिलेयेन प्रोक्तं नटसूत्रं विदन्त्यधीयते वा = कापिलेयिनः । मतान्तरे अनेन इन्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । [कापिलेयक आम्नायः] कापिलेयिनां नटानां आम्नायः = कापिलेयकः । 'चरणादकञ्' (६।३।१६८) अकञ्प्र० → अक । 'नोऽपदस्य०' (७४/६१) इन्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । आम्नायः ॥छ।। उपज्ञाते ॥ ६।३।१९१ ॥ [ उपज्ञाते ] प्रथमत उपदेशेन विना ज्ञातमुपज्ञातम्, तस्मिन् । [पाणिनीयं अकालकं, व्याकरणम् ] पाणिनेन पाणिनिना वा उपज्ञातं = पाणिनीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । न विद्यते काल:-कालाधिकारो यत्र तत् = अकालकम् । 'शेषाद् वा' (७।३।१७५) कच्प्र० → क । 'नबत्' (३।२।१२५) न० → अ० । सि-अम् । व्याकरणम् ।। [काशकृत्स्नं गुरुलाघवम्] कशकृत्स्नस्यापत्यं = काशकृत्स्नि(:) । 'अत इञ्' (६१३१) इप्र० → इ । वृद्धि: आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । काशकृत्स्निना उपज्ञातं = काशकृत्स्नम् । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । सि-अम् । गुरुश्च लाघवश्च = गुरुलाघवम् । सि-अम् ॥छ।। कृते ॥ ६।३।१९२ ॥ [कृते] कृत सप्तमी ङि । [शैवः ] शिवेन कृतो ग्रन्थः = शैवः । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। [वाररुचानि वाक्यानि] वररुचिना कृतानि = वाररुचानि । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । वाक्यानि । [जालूकाः श्लोकाः] जलूकेन जलूकया वा कृता(:) । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् । प्रथमा जस् । Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013) (3rd-3-10-2013) [289]

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444