Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 385
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३६५ [अर्द्धपञ्चमशूर्पम् ] अर्द्धपञ्चमैः शूर्पः क्रीतम् = अर्द्धपञ्चमशूर्पम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे 'ङ्यादेर्गौणस्या०' (२।४।९५) ङीनिवृत्तिः । [द्विशूर्पम् ] द्वाभ्यां शूर्पाभ्यां क्रीतं = द्विशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । पक्षे 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । सि-अम् । [अध्यर्द्धशूर्पम् ] अध्यर्द्धन शूर्पण क्रीतम् = अध्यर्द्धशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । पक्षे 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । सि-अम् । ___ [अर्द्धपञ्चमशूर्पम् ] अर्द्धपञ्चमैः शूपैः क्रीतम् = अर्द्धपञ्चमशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । पक्षे 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । सि-अम् । [द्विशौर्पिकम् ] द्वाभ्यां शूर्पाभ्यां क्रीतं = द्विशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । अनेन लुप् । द्विशूर्पण क्रीतं = द्विशौर्पिकम् । 'सङ्ख्यादेश्चाऽऽहंदलुचः' (६।४।८०) इत्यत्र अलुच इति भणनात् लुचि सत्यां 'शूर्पाद् वाऽञ्' (६।४।१३७) न भवति, ततः 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० → इक । 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पाञ्चमलोहितिकम्] पञ्चन्-लोहित । 'श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च' (२।४।३६) ङी - तस्य नदेशः। 'अस्य यां लुक् (२।४।८६) अलुक् । पञ्च लोहिन्यः परिमाणमस्य = पाञ्चलोहितिकम् । अनेन 'मानम्' (६।४।१६९) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) ईलुक् । 'जातिश्च-णि-तद्धितय-स्वरे' (३।२।५१) पुंवद्भावः । [पाञ्चकलायिकम् ] पञ्चन्-कला । पञ्च कलायाः परिमाणमस्य = पाञ्चकलायिकम् । 'मानम्' (६।४।१६९) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । [पञ्चगर्गः] पञ्चन्-गर्ग । गर्गस्यापत्यं वृद्धं स्त्री = गार्गी । 'गर्गादेर्यब्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'यो डायन् च वा' (२।४।६७) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । पञ्चभिः गार्गीभिः क्रीतः = पञ्चगर्गः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन इकण्लुप् । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः, ततो 'योऽश्यापर्णान्त०' (६।१।१२६) यजो लुप् । न तु अत्र पुंवद्भावेनापि ङीनिवृत्तिः साध्या, सा च 'ङ्यादेौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः' (२।४।९५) इत्यनेनापि न भविष्यति, ततः किं लुपः पित्त्वेन ? सत्यम् - 'ङ्यादेhणस्या०' (२।४।९५) इति ङीनिवृत्तिरेव न स्त्रीनिवृत्तिः, अतः पित्त्वं कृत्वा 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) इति स्त्रीत्य(व)निवृत्त्यर्थः पुंवद्भावः कार्यः, तस्मिन् सति 'यज्ञोऽश्यापर्णान्त-गोपवनादेः' (६।१।१२६) इति यत्रो लुप् भवतीति शेषः । [द्विषाष्टिकम् ] द्वाभ्यां षष्टिभ्यां क्रीतं = द्विषाष्टिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'मानसंवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । सि-अम् । [त्रिषाष्टिकम् ] त्रिभिः तिसृभिर्वा षष्टिभिः क्रीतं = त्रिषाष्टिकम् । पुं-स्त्री-क्लीबत्वात् षष्टेः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ॥छ।। नवाऽणः ।। ६।४।१४२ ।। [नवा] नवा प्रथमा सि । [अणः] अण् षष्ठी ङस् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [365]

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444