Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 388
________________ ३६८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । शाणात् ।। ६।४।१४६ ॥ [शाणात्] शाण पञ्चमी ङसि । [पञ्चशाण्यम्, पञ्चशाणम् ] पञ्चभिः शाणैः क्रीतं = पञ्चशाण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि-अम् । [अध्यर्द्धशाण्यम्, अध्यर्द्धशाणम् ] अध्यर्द्धन शाणेन क्रीतम् = अध्यर्द्धशाण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वितीये 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि-अम् । [अर्द्धपञ्चमशाण्यम्, अर्द्धपञ्चमशाणम् ] अर्द्धपञ्चमैः शाणैः क्रीतम् = अर्द्धपञ्चमशाण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । द्वितीये 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि-अम् ॥छ।। ___ द्वि-त्र्यादेर्याऽण् वा ॥ ६।४।१४७ ॥ [द्वित्र्यादेः] द्विश्च त्रिश्च = द्वित्री । द्वित्री आदिः(आदी) यस्य सः = द्विव्यादिः, तस्मात् । [याऽण् ] यश्च अण् च = याऽण् । प्रथमा सि । [वा] वा प्रथमा सि । वाग्रहणमुत्तरत्र नवानिवृत्त्यर्थम् । [द्विशाण्यम्, द्वैशाणम्, द्विशाणम् ] द्वाभ्यां शाणाभ्यां क्रीतं = द्विशाण्यम्, द्वैशाणम् । अनेन य-अण्प्र० → अ । वृद्धिः ऐ । एवम्-द्विशाणम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । [त्रिशाण्यम्, त्रैशाणम्, त्रिशाणम् ] त्रिभिः शाणैः क्रीतं = त्रिशाण्यम्, त्रैशाणम् । अनेन य-अण्प्र० → अ । वृद्धिः ऐ । एवम्-त्रिशाणम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् ॥छ।। पण-पाद-माषाद् यः ॥ ६।४।१४८ ॥ [पणपादमाषात् ] पणश्च पादश्च माषश्च = पणपादमाषम, तस्मात् । [यः] य प्रथमा सि । विधानसामर्थ्यान्न लुप् । [द्विपण्यम् ] द्वाभ्यां पणाभ्यां क्रीतं = द्विपण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [त्रिपण्यम् ] त्रिभिः पणैः क्रीतं = त्रिपण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [अध्यर्द्धपण्यम् ] अध्यर्द्धन पणेन क्रीतम् = अध्यर्द्धपण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [अर्द्धषष्ठपण्यम् ] अर्द्धषष्ठेन पण्येन क्रीतम् = अर्द्धषष्ठपण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [द्विपाद्यम् ] द्वाभ्यां पादाभ्यां क्रीतं = द्विपाद्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [त्रिपाद्यम् ] त्रिभिः पादैः क्रीतं = त्रिपाद्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [अध्यर्द्धपाद्यम् ] अध्यर्द्धन पादेन क्रीतम् = अध्यर्द्धपाद्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[368]

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444