Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 393
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३७३ _[आभ्युदयिकः] अभ्युदयस्य हेतुः संयोग उत्पातो वा = आभ्युदयिकः । 'हेतौ संयोगोत्पाते' (६।४।१५३) इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पञ्चकः] पञ्चानां हेतुः संयोग उत्पातो वा = पञ्चकः । 'सङ्ख्या०' (६।४।१३०) कप्र० । [सप्तकः] सप्तानां हेतुः संयोग उत्पातो वा = सप्तकः । 'सङ्ख्या -डतेश्चा०' (६।४।१३०) कप्र० । [प्रास्थिकः] प्रस्थस्य हेतुः संयोग उत्पातो वा = प्रास्थिकः । 'हेतौ संयोगोत्पाते' (६।४।१५३) इकण्प्र० , इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [खारीकः] खारी । खार्या क्रीतः = खारीकः । 'खारी-काकणीभ्यः कच्' (६।४।१४९) कचप्र० → क । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। [आश्विकः] अश्वस्य हेतुः संयोग उत्पातो वा = आश्विकः । 'हेतौ संयोगोत्पाते' (६।४।१५३) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० →र०। [गाणिकः] गणस्य हेतुः संयोग उत्पातो का = गाणिकः । 'हेतौ संयोगोत्पाते' (६।४।१५३) इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। [वासुकः] वसु । वसुनो-द्रव्यस्य हेतुः = वासुकः । 'हेतौ संयोगोत्पाते' (६।४।१५३) इकणप्र० → इक । 'ऋवर्णोवर्ण-दोसिसुसशश्वद०' (७४/७१) इकणः इकारस्य लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। पृथिवी-सर्वभूमेरीश-ज्ञातयोश्चाञ् ॥ ६।४।१५६ ॥ [पृथिवीसर्वभूमेः ] पृथिवी च सर्वभूमिश्च = तत्, तस्मात् । [ईशज्ञातयोः] 'ईशिक् ऐश्वर्ये' (१११६) ईश् । ईष्टे । 'नाम्युपान्त्य०' (५।१५४) कप्र० । 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । ज्ञायते । 'ज्ञानेच्छा०' (५।२।९२) क्तप्र० → त । ईशश्च ज्ञातश्च = ईशज्ञातौ, तयोः = ईशज्ञातयोः । सप्तमी ओस् । [च] च प्रथमा सि । [अञ्] अञ् प्रथमा सि । [पार्थिवः] 'ईशिक ऐश्वर्ये' (१११६) ईश् । ईष्टे । नाम्युपान्त्य-प्री-क-गृ-ज्ञः कः' (५।१।५४) कप्र० → अ । 'प्रथिष् प्रख्याने' (१००३) प्रथ् । प्रथते = पृथिवी । 'प्रथेरिवट पृथ् च' (उणा० ५२१) इवट्प्र० → इव - पृथ्देशश्च । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । पृथिव्या ईशः-स्वामी = पार्थिवः । अनेन अप्र० → अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । [सार्वभौमः ] सर्वा चासौ भूमिश्च = सर्वभूमिः । 'परत: स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ्' (३।२।४९) पुंवत् । सर्वभूमेरीशः = सार्वभौमः । अनेन अप्र० + अ । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [373]

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444