________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३७३
_[आभ्युदयिकः] अभ्युदयस्य हेतुः संयोग उत्पातो वा = आभ्युदयिकः । 'हेतौ संयोगोत्पाते' (६।४।१५३) इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पञ्चकः] पञ्चानां हेतुः संयोग उत्पातो वा = पञ्चकः । 'सङ्ख्या०' (६।४।१३०) कप्र० ।
[सप्तकः] सप्तानां हेतुः संयोग उत्पातो वा = सप्तकः । 'सङ्ख्या -डतेश्चा०' (६।४।१३०) कप्र० ।
[प्रास्थिकः] प्रस्थस्य हेतुः संयोग उत्पातो वा = प्रास्थिकः । 'हेतौ संयोगोत्पाते' (६।४।१५३) इकण्प्र० , इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[खारीकः] खारी । खार्या क्रीतः = खारीकः । 'खारी-काकणीभ्यः कच्' (६।४।१४९) कचप्र० → क । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[आश्विकः] अश्वस्य हेतुः संयोग उत्पातो वा = आश्विकः । 'हेतौ संयोगोत्पाते' (६।४।१५३) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० →र०।
[गाणिकः] गणस्य हेतुः संयोग उत्पातो का = गाणिकः । 'हेतौ संयोगोत्पाते' (६।४।१५३) इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[वासुकः] वसु । वसुनो-द्रव्यस्य हेतुः = वासुकः । 'हेतौ संयोगोत्पाते' (६।४।१५३) इकणप्र० → इक । 'ऋवर्णोवर्ण-दोसिसुसशश्वद०' (७४/७१) इकणः इकारस्य लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
पृथिवी-सर्वभूमेरीश-ज्ञातयोश्चाञ् ॥ ६।४।१५६ ॥ [पृथिवीसर्वभूमेः ] पृथिवी च सर्वभूमिश्च = तत्, तस्मात् ।
[ईशज्ञातयोः] 'ईशिक् ऐश्वर्ये' (१११६) ईश् । ईष्टे । 'नाम्युपान्त्य०' (५।१५४) कप्र० । 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । ज्ञायते । 'ज्ञानेच्छा०' (५।२।९२) क्तप्र० → त । ईशश्च ज्ञातश्च = ईशज्ञातौ, तयोः = ईशज्ञातयोः । सप्तमी ओस् ।
[च] च प्रथमा सि ।
[अञ्] अञ् प्रथमा सि ।
[पार्थिवः] 'ईशिक ऐश्वर्ये' (१११६) ईश् । ईष्टे । नाम्युपान्त्य-प्री-क-गृ-ज्ञः कः' (५।१।५४) कप्र० → अ । 'प्रथिष् प्रख्याने' (१००३) प्रथ् । प्रथते = पृथिवी । 'प्रथेरिवट पृथ् च' (उणा० ५२१) इवट्प्र० → इव - पृथ्देशश्च । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । पृथिव्या ईशः-स्वामी = पार्थिवः । अनेन अप्र० → अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।
[सार्वभौमः ] सर्वा चासौ भूमिश्च = सर्वभूमिः । 'परत: स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ्' (३।२।४९) पुंवत् । सर्वभूमेरीशः = सार्वभौमः । अनेन अप्र० + अ । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [373]