________________
३७४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पार्थिवः] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । ज्ञायते = ज्ञातः । 'ज्ञानेच्छा०' (५।२।९२) क्तप्र० → त । पृथिव्या ज्ञातः = पार्थिवः । अनेन अप्र० → अ । वृद्धिः आर् । अवर्णेवर्णस्य' (७४/६८) ईलुक् । कर्तरि षष्ठी सम्बन्धविवक्षायां वा ।
[सार्वभौमः] सर्वभूमेर्शातः = सार्वभौमः । अनेन अप्र० → अ । 'अनुशतिकादीनाम्' (७४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[पार्थिवः] पृथिव्या हेतुः संयोग उत्पातो वा = पार्थिवः । अनेन अप्र० +अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[सार्वभौमः] सर्वभूमेहेतुः संयोग उत्पातो वा = सार्वभौमः । अनेन अप्र० + अ । 'अनुशतिकादीनाम्' (७।४।२७) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । ईशज्ञातयोरिति द्विवचनं हेतुविशेषणत्वशङ्काव्यवच्छेदार्थम् ॥छ।।
लोक-सर्वलोकाज्ज्ञाते || ६।४।१५७ ।। [लोकसर्वलोकात् ] लोकश्च सर्वलोकश्च = लोकसर्वलोकम्, तस्मात् । [ज्ञाते ] ज्ञात सप्तमी ङि ।
[लौकिकः] लोकस्य ज्ञातः = लौकिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[सार्वलौकिकः] सर्वलोकस्य ज्ञातः = सार्वलौकिकः । अनेन इकण्प्र० + इक । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
तदत्राऽस्मै वा वृद्ध्याय-लाभोपदा-शुल्कं देयम् ॥ ६।४।१५८ ॥ [ तद् ] तद् पञ्चमी ङसि । सूत्रत्वाल्लुप् । [अत्र ] अत्र सप्तमी ङि । सूत्रत्वाल्लुप् । [अस्मै ] अस्मै चतुर्थी ङे । सूत्रत्वाल्लुप् । [वा] वा प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [वृद्धयायलाभोपदाशुल्कम् ] वृद्धिश्च आयश्च लाभश्च उपदा च शुल्कं च = वृद्ध्यायलाभोपदाशुल्कम् । [ देयम् ] देय प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् ।
अधमर्णेनोत्तमाय गृहीतधनातिरिक्तं देयं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । पटादीनामुपादानं मूल्यातिरिक्तं प्राप्तं द्रव्यं लाभः । उपदा उत्कोचः-लञ्च उत्कोट इति यावत् । निर्विश्यते-उपभुज्यते सुखमनेन वणिग्भिः = निर्वेशः । 'अच्' (५।११४९) अच्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । रक्षायै निर्वेशो भाटकं रक्षानिर्वेशः । वणिजां रक्षानिर्वेशो-राजभागः शुल्कम् ।
[पञ्चकं शतम् ] पञ्चास्मिन् शते वृद्धिः = पञ्चकं शतम् । 'सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[374]