________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३७५
[पञ्चको ग्रामः ] पञ्चास्मिन् ग्रामे आयः = पञ्चको ग्रामः । 'सङ्ख्या०' (६।४।१३०) कप्र० । [पञ्चकः पट::] पञ्चास्मिन् पटे लाभः = पञ्चक: पटः । 'सङ्ख्या०' (६।४।१३०) कप्र० ।
[पञ्चको व्यवहारः] पञ्चास्मिन् व्यवहारे उपदा = पञ्चको व्यवहारः । 'सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० ।
[पञ्चकं शतम् ] पञ्चास्मिन् शते शुल्कं = पञ्चकं शतम् । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० ।
[शत्यम्, शतिकम् ] शतमस्मिन् वृद्धिरायो लाभ उपदा शुल्कं वा देयं = शत्यम्, शतिकम् । 'शतात् केवलादतस्मिन् येकौ' (६।४।१३१) य-इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
- [साहस्रम् ] सहस्रमस्मिन् वृद्धिरायो लाभ उपदा शुल्कं वा देयं = साहस्रम् । 'सहस्र-शतमानादण' (६।४।१३६) अण्प्र० → अ । 'वृद्धिः स्वरेष्वा०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।।
[प्रास्थिकः] प्रस्थोऽस्मिन् वृद्धिरायो लाभ उपदा शुल्कं वा देयं = प्रास्थिकम्(कः) । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० - इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[ द्रौणिकम् ] द्रोणोऽस्मिन् वृद्धिरायो लाभ उपदा शुल्कं वा देयं = द्रौणिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पञ्चको देवदत्तः] पञ्चन् मण्ड्यते । पञ्चास्मै देवदत्ताय वृद्धिरायो लाभ उपदा शुल्कं वा देयं = पञ्चको देवदत्तः । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० ।
[शत्यः, शतिकः] शतमस्मै देवदत्ताय वृद्धिरायो लाभ उपदा शुल्कं वा देयं = शत्यः, शतिकः । 'शतात् केवलादतस्मिन् येकौ' (६।४।१३१) य-इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[साहस्त्रः] सहस्रमस्मै देवदत्ताय वृद्धिरायो लाभ उपदा शुल्कं वा देयं = साहस्रः । 'सहस्र-शतमानादण्' (६।४।१३६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[प्रास्थिकः ] प्रस्थोऽस्मै देवदत्ताय वृद्धिरायो लाभ उपदा शुल्कं वा देयं = प्रास्थिकः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ॥छ।।
पूरणा-5 दिकः ॥ ६।४।१५९ ॥ [पूरणाऽर्द्धात् ] पूरणं च अर्द्धश्च = पूरणाऽर्द्धम्, तस्मात् । [इकः] इक प्रथमा सि ।।
[द्वितीयिकः] द्वितीयमस्मिन्नस्मै वृद्धिरायो लाभ उपदा शुल्कं वा देयं = द्वितीयिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[तृतीयिकः] त्रि । त्रयाणां पूरणः = तृतीयः । 'स्तु च' (७१।१६६) तीयप्र० - त्रि० → तृदेशश्च । तृतीयमस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्कं वा देयं = तृतीयिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[पञ्चमिकः] पञ्चानां पूरणः = पञ्चमः । 'नो मट्' (७।१।५९) मटप्र० → म । पञ्चममस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्कं वा देयं = पञ्चमिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [375]