________________
३७६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[षष्ठिकः] षष् । षण्णां पूरणः = षष्ठः । 'षट्-कति-कतिपयात् थट्' (७१।१६२) थट्प्र० → थ । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवर्गो' (१।३।६०) थ० → ठ० । षष्ठमस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्कं वा देयं = षष्ठिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[अर्द्धिकः, अर्द्धिका स्त्री] अर्द्ध । अर्द्धमस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्कं वा देयं = अद्धिकः, अद्धिका । अनेन इकप्र० । 'अवर्णवर्णस्य' (७/४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । अर्द्धशब्दो रूपकार्द्ध रूढः ॥छ।।
भागाद् येकौ ॥ ६।४।१६० ॥ [ भागात् ] भाग पञ्चमी ङसि ।। [येकौ ] यश्च इकश्च = येकौ ।
[भाग्यः, भागिकः, भागिका स्त्री] भाग । भागोऽस्मिन्नस्मै वा वृद्धयादीनामन्यतमं देयं = भाग्यः, भागिकः । 'तदत्रास्मै वा०' (६।४।१५८) इति प्राप्तस्य अनेन अपवाद य-इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० + आ । भागशब्दोऽपि रूपकार्द्धस्य वाचकः ॥छ।।
तं पचति द्रोणाद् वाऽञ् ॥ ६।४।१६१ ॥ [तम् ] तम् पञ्चमी ङसि । सूत्रत्वाल्लुप् । [पचति ] पचतीति पचत्, तस्मिन् । [द्रोणात् ] द्रोण पञ्चमी ङसि । [वा] वा प्रथमा सि । [अञ्] अञ् प्रथमा सि ।
[द्रौणः, द्रौणिकः] द्रोण । द्रोणं पचति = द्रौणः । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृद्धिः औ । एवम्-द्रौणिकः । 'इकण्' (६।४।१) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[द्रौणी, द्रौणिकी स्थाली गृहिणी वा] द्रोणे पचति = द्रौणी । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अणजेयेकण' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । एवम्-द्रौणिकी । 'इकण्' (६।४।१) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । स्थाली गृहिणी वा ।
[द्विद्रोणी] द्वौ द्रोणौ पचति = द्विद्रोणी । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन अप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) अजिकणोर्लुप् । 'परिमाणात् तद्धितलुक्यबिस्ताऽऽचितकम्बल्यात्' (२।४।२३) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।।
सम्भवदवहरतोश्च ।। ६।४।१६२ ॥ [सम्भवदवरहतोः] सम्भवंश्च अवहरंश्च = सम्भवदवहरन्तौ, तयोः = सम्भवदहरतोः । सप्तमी ओस् । [च] च प्रथमा सि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [376]