Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 406
________________ ३८६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [पात्र्यः, पात्रियः] पात्र । पात्रमर्हति = पात्र्यः, पात्रियः । अनेन य-इयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । ओदनादिः ॥छ। दक्षिणा-कडङ्गर-स्थालीबिलादीय-यौ ॥ ६।४।१८१ ।। [दक्षिणाकडङ्गरस्थालीबिलात् ] दक्षिणा च कडङ्गरश्च स्थालीबिलश्च = दक्षिणाकडङ्गरस्थालीबिलम्, तस्मात् । [ईययौ ] ईयश्च यश्च = ईययौ । [दक्षिणीयो दक्षिण्यो गुरुः] दक्षन्तोऽस्यां = दक्षिणा । दक्षिणामर्हति = दक्षिणीयो दक्षिण्यो गुरुः । अनेन ईययप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। [कडकरीयः, कडों गौः] कडङ्गरमर्हति = कडङ्गरीयः, कडङ्गो गौः । अनेन ईय-यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । कडङ्गरं माषादिकाष्ठम् । [स्थालीबिलीयाः, स्थालीबिल्यास्तण्डुलाः ] स्थालीबिलमर्हति = स्थालीबिलीयाः, स्थालीबिल्याः । अनेन ईययप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । जस् । तण्डुलाः पाकाहा॑ इत्यर्थः ॥छ।। छेदादेर्नित्यम् ॥ ६।४।१८२ ॥ [छेदादेः] छेद आदिर्यस्य सः = छेदादिः, तस्मात् । [नित्यम् ] नित्यम् प्रथमा सि । सूत्रत्वाल्लोपः । नित्यमित्यर्हतीत्यस्य विशेषणम् । [छैदिकः] छेद । छेदं नित्यमर्हति = छैदिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफिति' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र०। [भैदिकः] भेदं नित्यमर्हति = भैदिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। विरागाद् विरङ्गश्च ॥ ६।४।१८३ ॥ [विरागात् ] विराग पञ्चमी ङसि । [विरङ्गश्च] विरङ्ग प्रथमा सि । च प्रथमा सि । [वैरङ्गिकः] विराग । नित्यं विरागमर्हति = वैरङ्गिकः । अनेन इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र०॥छ।। शीर्षच्छेदाद् यो वा ॥ ६।४।१८४ ॥ [शीर्षच्छेदात् ] शीर्षस्य च्छेदः = शीर्षच्छेदस्तस्मात् । ॐ मध्यमवृत्तौ - 'दक्षि: शीघ्र च' । दक्षन्तेऽस्यामिति दक्षिणा । 'द्रु-हु-वृहि-दक्षिभ्य इणः' (उणा० १९४) इणप्र० । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [386]

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444