________________
३८६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पात्र्यः, पात्रियः] पात्र । पात्रमर्हति = पात्र्यः, पात्रियः । अनेन य-इयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । ओदनादिः ॥छ।
दक्षिणा-कडङ्गर-स्थालीबिलादीय-यौ ॥ ६।४।१८१ ।। [दक्षिणाकडङ्गरस्थालीबिलात् ] दक्षिणा च कडङ्गरश्च स्थालीबिलश्च = दक्षिणाकडङ्गरस्थालीबिलम्, तस्मात् । [ईययौ ] ईयश्च यश्च = ईययौ ।
[दक्षिणीयो दक्षिण्यो गुरुः] दक्षन्तोऽस्यां = दक्षिणा । दक्षिणामर्हति = दक्षिणीयो दक्षिण्यो गुरुः । अनेन ईययप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[कडकरीयः, कडों गौः] कडङ्गरमर्हति = कडङ्गरीयः, कडङ्गो गौः । अनेन ईय-यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । कडङ्गरं माषादिकाष्ठम् ।
[स्थालीबिलीयाः, स्थालीबिल्यास्तण्डुलाः ] स्थालीबिलमर्हति = स्थालीबिलीयाः, स्थालीबिल्याः । अनेन ईययप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । जस् । तण्डुलाः पाकाहा॑ इत्यर्थः ॥छ।।
छेदादेर्नित्यम् ॥ ६।४।१८२ ॥ [छेदादेः] छेद आदिर्यस्य सः = छेदादिः, तस्मात् ।
[नित्यम् ] नित्यम् प्रथमा सि । सूत्रत्वाल्लोपः । नित्यमित्यर्हतीत्यस्य विशेषणम् ।
[छैदिकः] छेद । छेदं नित्यमर्हति = छैदिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफिति' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र०।
[भैदिकः] भेदं नित्यमर्हति = भैदिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
विरागाद् विरङ्गश्च ॥ ६।४।१८३ ॥ [विरागात् ] विराग पञ्चमी ङसि । [विरङ्गश्च] विरङ्ग प्रथमा सि । च प्रथमा सि ।
[वैरङ्गिकः] विराग । नित्यं विरागमर्हति = वैरङ्गिकः । अनेन इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र०॥छ।।
शीर्षच्छेदाद् यो वा ॥ ६।४।१८४ ॥ [शीर्षच्छेदात् ] शीर्षस्य च्छेदः = शीर्षच्छेदस्तस्मात् ।
ॐ मध्यमवृत्तौ - 'दक्षि: शीघ्र च' । दक्षन्तेऽस्यामिति दक्षिणा ।
'द्रु-हु-वृहि-दक्षिभ्य इणः' (उणा० १९४) इणप्र० ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [386]