________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३८५
[श्वतच्छत्रिकः] श्वेतच्छत्रमर्हति = श्वैतच्छत्रिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[वैषिकः] विषमर्हति = वैषिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[वास्त्रयुगिकः] वस्त्रस्य युगमर्हति = वास्त्रयुगिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आभिषेचनिकः] अभिषेचनमर्हति = आभिषेचनिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[बालीवर्दिकः] बलीवईमर्हति = बालिवर्दिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[शत्यः, शतिकः] शतमर्हति = शत्यः, शतिकः । अनेन य-इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[साहस्त्रः] सहस्रमर्हति = साहस्रः । 'सहस्र-शतमानादण' (६।४।१३६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
दण्डादेर्यः ॥ ६।४।१७८ ॥ [ दण्डादेः] दण्ड आदिर्यस्य सः = दण्डादिः, तस्मात् । [यः] य प्रथमा सि ।
[ दण्ड्यः ] दण्ड । दण्डमर्हति = दण्ड्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र०।
[मुसल्यः ] मुसल । मुसलमर्हति = मुसल्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
यज्ञादियः ॥ ६।४।१७९ ॥
[ यज्ञात्] यज्ञ पञ्चमी ङसि । [इयः] इय प्रथमा सि ।
[ यज्ञियो देशः, यज्ञियो यजमानः] यज्ञमर्हति = यज्ञियो देशो यजमानो वा । अनेन इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्।
यज्ञो नाम क्रियासमुदायः कश्चित् तदभिव्यङ्ग्यं वा प्रकाश्यमित्यर्थः । पूर्वं फलदानसमर्थं अदृष्टमित्याहुः ॥छ।।
पात्रात् तौ ॥ ६।४।१८० ।।
[पात्रात्] पात्र पञ्चमी उसि । [तौ ] तद् औ । 'आ द्वेरः' (२।१।४१) द० → अ० । 'ऐदौत् सन्ध्यक्षरैः' (१।२।१२) औ ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [385]