________________
३८४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
श-चात्वारिंशम् ॥ ६।४।१७४ ॥
[...शचात्वारिंशम् ] शश्च च(चा)त्वारिंशश्च = 3शच(चा)त्वारिंशम् ।।
[ _शानि] त्रिंशदध्याया मानमेषां = ...शानि । अनेन डण्प्र० → अ । वृद्धिः ऐ । 'डित्यन्त्यस्वरादे०' (२।१।११४) अल्लुक् । जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः।
[चात्वारिंशानि ब्राह्मणानि ] चत्वारिंशदध्याया मानमेषां = च(चा)त्वारिंशानि । अनेन डण्प्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अल्लुक् । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । ब्राह्मणग्रन्थविशेषाणां नाम ॥छ।।
पञ्चद्-दशद् वर्ग वा || ६।४।१७५ ।।
[पञ्चद्दशत् ] पञ्चच्च दशच्च = पञ्चद्दशत् । [वर्गे] वर्ग सप्तमी ङि ।
[वा] वा प्रथमा सि ।
[पञ्चद्वर्गः, पञ्चको वर्गः] पञ्चन् । पञ्च मानमस्य वर्गस्य = पञ्चद्वर्गः । अनेन अत्प्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । द्वितीये 'सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । वर्गः ॥छ।।
स्तोमे डट् ॥ ६।४।१७६ ॥
[स्तोमे] स्तोम सप्तमी ङि । [ डट् ] डट् प्रथमा सि । ऋगादीनां समूहः स्तोमः ।
[पञ्चदशः स्तोमः] पञ्चदश ऋचो मानमस्य = पञ्चदशः । अनेन डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । प्रथमा सि । 'सो रुः' (२२१७२) स० → र० । स्तोमः ।
[विंशः] विंशति । विंशति ऋचो मानमस्य = विंशः । [पञ्चविंशः] पञ्चविंशति ऋचो मानमस्य = पञ्चविंशः । [त्रिंशः] त्रिंशत् ऋचो मानमस्य = त्रिंशः ।
[पञ्चदशी पङ्क्तिः ] पञ्चन्-दशन् । पञ्चदश ऋचो मानमस्याः सा = पञ्चदशी । अनेन डटप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१२११४) अन्लुक् । 'अणजेयेकण्०' (२।४।२०) ङी । पङ्क्तिः ॥छ।।
तमर्हति ।। ६।४।१७७ ॥
[तम् ] तम् पञ्चमी ङसि । सूत्रत्वाल्लुप् । [अर्हति ] अर्हतीति अर्हन्, तस्मिन् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [384]