________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३८३
[विंशतिः] द्वि मण्ड्यते । द्वौ दशतौ मानमेषां संख्येयानामस्य वा संख्यानस्य = विंशतिः । अनेन शतिप्र० - द्विशब्दस्य विभावः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[त्रिंशत् ] त्रि । त्रयो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य = त्रिंशत् । अनेन शत्प्र० - त्रिशब्दस्य त्रिभावः ।
[चत्वारिंशत् ] चतुर् । चत्वारो दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य = चत्वारिंशत् । अनेन शत्प्र० - चतुर्शब्दस्थाने चत्वारिं भावः ।
[पञ्चाशत् ] पञ्चन् । पञ्च दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य = पञ्चाशत् । अनेन शत्प्र० - नकारस्य आत्वम् । 'समानानां०' (१२।१) दीर्घः ।
[षष्टिः ] षष् । षट् दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य = षष्टिः । अनेन तिप्र० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ।
[सप्ततिः] सप्तन् । सप्त दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य = सप्ततिः । अनेन तिप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[अशीतिः] अष्टन् । अष्टौ दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य = अशीतिः ।
[नवतिः] नवन् । नव दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य = नवतिः । अनेन तिप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[शतम् ] दशन् । दशतो मानमेषां संख्येयानामस्य वा संख्यानस्य = शतम् । अनेन तप्र० - दशनशब्दस्थाने शभावश्च । सि-अम्।
[सहस्रम् ] दशन् । दश शतानि मानमेषां संख्येयानामस्य वा संख्यानस्य = सहस्रम् । अनेन सहस्रनिपात्यते । [अयुतम् ] दशन् । दश सहस्राणि मानमेषां संख्येयानामस्य वा संख्यानस्य = अयुतम् । अनेन अयुतं निपात्यते । [नियुतम् ] दशन् । दशायुतानि मानमेषां संख्येयानामस्य वा संख्यानस्य = नियुतम् । अनेन नियुतं निपात्यते । [प्रयुतम् ] दश नियुतानि मानमेषां संख्येयानामस्य वा संख्यानस्य = प्रयुतम् । अनेन प्रयुतं निपात्यते । [अर्बुदम् ] दश प्रयुतानि मानमेषां संख्येयानामस्य वा संख्यानस्य = अर्बुदम् ।। [ न्यर्बुदम् ] दशार्बुदानि मानमेषां संख्येयानामस्य वा संख्यानस्य = न्यर्बुदम् । अनेन न्यर्बुद निपात्यते ।
बहुवचनात् दशायुतानि = लक्षम् । दश प्रयुतानि = कोटिः । दशाब्जानि = खर्वम् । आदिशब्दात्-दशनिखर्वाणि = महाब्जम् । दशमहाब्जानि = शङ्कुः । दशशङ्कवो वार्द्धिः । दशवार्द्धयो अन्त्यम् । दशान्तानि = मध्यम् । दशमध्यानि = परायम् । इति अनेन सर्वाण्यपि निपात्यन्ते ।
[पङ्क्तिश्छन्दः] पञ्च पादा मानमस्याः = पङ्क्तिः । अनेन पङ्क्तिनिपातश्छन्दः ।
[पिपीलिकापङ्क्तिः ] 'पचुण विस्तारे' (१५८०) पच् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) पञ्च् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । पञ्चनं = पङ्क्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'णेरनिटि' (४।३।८३) णिच्लुक् । 'च-जः क-गम्' (२।१।८६) च० → क० । पिपीलिकायाः पङ्क्तिः = पिपीलिकापङ्क्तिः ।
यदत्र लक्षणेनानुपन्नं तत्सर्वं निपातनात् सिद्धम् । लिङ्गसङ्ख्यानियमश्च “विंशत्याद्या शतादिति” सिद्ध एव ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [383]