________________
३८२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[शतकं निदानम् ] शतमध्याया मानमस्य = शतकम् । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । निदानम् ।
[अष्टकः पाठोऽधीतः] अष्टन् । अष्टौ रूपाणि वारा मानमस्य = अष्टकः । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । पाठोऽधीतः ।
[पञ्चतयं पदम् ] पञ्चन् । पञ्च वर्णा मानमस्य = पञ्चतयम् । 'अवयवात् तयट्' (७१।१५१) तयट्प्र० → तय । सि-अम् । पदम्।
[चतुष्टयी शब्दानां प्रवृत्तिः] चतुर् । चतुरोऽवयवा मानमस्याः सा = चतुष्टयी । 'अवयवात् तयट्' (७।१।१५१) तयटप्र० → तय । 'च-ट-ते सद्वितीये' (१।३।७) र० → स० । 'हुस्वान्नाम्नस्ति' (२।३।३४) स० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । 'अणजेयेकण्०' (२।४।२०) ङी । शब्दानां प्रवृत्तिः ।
पञ्चादीनां सङ्ख्येयानामवयवतया सङ्घादेर्मानत्वात् 'मानम्' (६।४।१६९) इत्यनेनैव सिध्यति, परत्वात्तु तयट प्राप्नोति, तद्बाधनार्थं वचनम् । न चातिप्रसङ्ग इति कोऽर्थः ? सङ्के वाच्ये क एवेति । अभेदरूपापन्नेऽवयवाऽवयविरूपे सङ्घादौ तयटो बाधकमिदम् । भेदरूपापन्ने तु बहुत्वरूपापन्ने सङ्घन तयडेव ।
[द्वये देवमनुष्याः ] द्वौ अवयवौ मानमेषां = द्वये । 'द्वि-त्रिभ्यामयट वा' (७१२१५२) अयट्प्र० २ अय । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् । प्रथमा जस् । 'नेमा-ऽर्द्ध-प्रथम-चरम-तया-ऽल्प-कतिपयस्य वा' (१।४।१०) जस्० इ० । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ए । देवाश्च मनुष्याश्च = देवमनुष्याः । स्याद्वादाश्रयणाच्चात्र भेदाभेदयोः संभवः ॥छ।।
नाम्नि || ६।४।१७२ ॥ [नाम्नि ] नामन् सप्तमी ङि । 'ई-ङौ वा' (२।१।१०९) अलुक् ।
[पञ्चकाः शकुनयः] पञ्चेति सङ्ख्या मानमेषां = पञ्चकाः । 'सङ्ख्या-डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । शकुनि । प्रथमा जस् । 'जस्येदोत्' (१।४।२२० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[त्रिकाः शालङ्कायनाः] त्रि । त्रय इति सङ्ख्या मानमेषां = त्रिकाः । 'सङ्ख्या-डतेश्चाऽशत्०' (६।४।१३०) कप्र० । शलङ्कु । शलङ्कोरपत्यम् । 'शालङ्क्यौदि-षाडि-वाड्वलि' (६।१।३७) इप्र० → इ - उलोपश्च । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः । 'यजिञः' (६।१।५४) आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्र० जस् ।
[सप्तका ब्रह्मवृक्षाः] सप्तन् । सप्तेति सङ्ख्या मानमेषां = सप्तकाः । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । प्रथमा जस् । ब्रह्मवृक्षाः ।
[अष्टका राजर्षयः] अष्टन् । अष्टाविति सङ्ख्या मानमेषां = अष्टकाः । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । प्रथमा जस् । राजर्षयः ।
[पञ्चकाः] पञ्चैव = पञ्चकः । स्वार्थे कप्र० । [त्रिकाः] त्रय एव त्रिकाः । स्वार्थे कप्र० । जस्प्रत्ययो भवति । भाष्यकारमतमेतत् ॥छ।।
विंशत्यादयः ॥ ६।४।१७३ ॥ [विंशत्यादयः] विंशतिरादिर्येषां ते ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[382]