________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३८१
[द्विषाष्टिकः] द्वे षष्टी जीवितमानमस्य = द्विषाष्टिकः । अनेन इकण्प्र० → इक । 'मान-संवत्सरस्याशाणकुलिजस्याऽनाम्नि' (७४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इवर्णस्य लुक् ।
[त्रिषाष्टिकः] तिस्रः त्रयो वा षष्टयो जीवितमानमस्य = त्रिषाष्टिकः । अनेन इकणप्र० + इक । 'मानसंवत्सरस्याशाण०' (७४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इवर्णस्य लुक् ।
[द्विसाप्ततिकः] द्वे सप्तती जीवितमानमस्य = द्विसाप्ततिकः । अनेन इकण्प्र० → इक । 'मानसंवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[त्रिसाप्ततिकः] तिस्रः सप्ततयो जीवितमानमस्य = त्रिसाप्ततिकः । अनेन इकण्प्र० → इक । 'मानसंवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[द्विवार्षशतिकः] द्वे वर्षशते जीवितमानमस्य = द्विवार्षशतिकः । अनेन इकण्प्र० → इक । 'मानसंवत्सरस्याशाण०' (७४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[त्रिवार्षशतिकः] त्रीणि वर्षशतानि जीवितमानमस्य = त्रिवार्षशतिकः । अनेन इकण्प्र० , इक । 'मानसंवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[द्विवार्षसहस्त्रिकः] द्वे वर्षे सहस्र जीवितमानमस्य = द्विवार्षसहस्रिकः । अनेन इकणप्र० → इक । 'मानसंवत्सरस्याशाण०' (७४/१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[त्रिवार्षसहस्त्रिकः] त्रीणि वर्षसहस्राणि जीवितमानमस्य = त्रिवार्षसहस्रिकः । अनेन इकणप्र० → इक । 'मानसंवत्सरस्याशाण०' (७४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
कथं पुनः षष्ट्यादयो जीवितमानं भवन्ति । वृत्तौ वर्षशत(ब्द)लोपात् । यथा “शतायुर्वै पुरुष" इति शतं वर्षाणि आयुर्यस्य सः । 'पृषोदरादयः (३।२।१५५) इत्यनेन मध्यमपदलोपः ॥छ।।
सङ्ख्यायाः सङ्घ-सूत्र-पाठे ॥ ६।४।१७१ ॥ [सङ्ख्यायाः] सङ्ख्या पञ्चमी ङसि । [ सङ्घसूत्रपाठे ] सङ्घश्च सूत्रं च पाठश्च = सङ्घसूत्रपाठम्, तस्मिन् ।
[पञ्चकः सङ्घः] पञ्च गावो मानमस्य = पञ्चकः । 'सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[सप्तकः] सप्त गावो मानमस्य = सप्तकः । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[अष्टकं पाणिनीयं सूत्रम् ] अष्टन् । अष्टौ अध्याया मानमस्य = अष्टकम् । 'सङ्ख्या -डतेश्चाऽशत्' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । पाणिनीयं सूत्रम् ।
[दशकं वैयाघ्रपदीयम् ] दश अध्याया मानमस्य = दशकम् । 'सङ्ख्या -डतेश्चाऽशत्' (६।४।१३०) कप्र० । व्याघ्रस्येव पादौ यस्य । 'पात् पादस्याऽहस्त्यादेः' (७।३।१४८) पाद० → पात्देशः । व्याघ्रपादोऽपत्यं = वैयाघ्रपद्यम् । 'गर्गादेर्यज्' (६।१।४२) यप्र० + य । 'लोकात्' (१।१।३) व् पाठउ विश्लेषियइ । 'य्वः पदान्तात् प्रागैदौत् (७४।५) ऐ । 'य-स्वरे पादः पदणि-क्य-घुटि' (२।१।१०२) पद् । वैयाघ्रपद्येन प्रोक्तं = वैयाघ्रपदीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [381]