________________
३८०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[प्रास्थिको राशिः] 'मांङ्क् मान-शब्दयोः' (११३७) मा । मीयते - परिच्छिद्यते इयत्ता क्रियते इत्यर्थः-येन तन्मानम् । अनटप्र० → अन । प्रस्थो मानमस्य = प्रास्थिको राशिः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[द्रौणिकः] द्रोणो मानमस्य = द्रौणिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।।
[खारीकः] खारी मानमस्य = खारीकः । 'खारी-काकणीभ्यः कच्' (६।४।१४९) कच्प्र० + क ।
[खारीशतिकः] खार्याः शतम् । खारीशतं मानमस्य = खारीशतिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[खारीसहस्रिकः] खार्याः सहस्रं मानमस्य = खारीसहस्रिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[वार्षशतिको देवदत्तः] वर्षाणां शतं = वर्षशतम् । वर्षशतं मानमस्य = वार्षशतिको देवदत्तः ।
[वार्षसहस्त्रिकः] वर्षाणां सहस्रं = वर्षसहस्रम् । वर्षसहस्रं मानमस्य = वार्षसहस्रिकः । 'सहस्र-शतमानादण' (६।४।१३६) न भवति । स हि केवलात् सङ्ख्यापूर्व(ा)द्वा भवति, न वर्षपूर्वात् ततः 'इकण्' (६।४।१) इत्यनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पाञ्चलोहितिकम् ] लोहित । 'श्यतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च' (२।४।३६) ङी-तस्य नश्च । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । पञ्च लोहितानि-पञ्च लोहिन्यो वा मानमस्य = प(पा)ञ्चलोहितिकम् । अनेन इकणप्र० → इक । वृद्धिः । 'जातिश्च णि-तद्धितय-स्वरे' (२।४।९५) पुंवद्भावः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [पाञ्चकलायिकम्] पञ्च कलाया विधान्यानि मानमस्य = पाञ्चकलायिकम् । अनेन इकण्प्र० → इक । वृद्धिः ।
। सि-अम् । अनयोः संज्ञाशब्दत्वात् 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इति लुब् न भवति ॥छ।
जीवितस्य सन् ॥ ६।४।१७० ॥ [ जीवितस्य ] जीवनं = जीवितम्, तस्य । [सन् ] अस्तीति सन् । विद्यमानं इत्यर्थः । सांप्रत्ययः सन् इति कोऽर्थः ? तस्य 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इति लुप् प्राप्ता न भवतीत्यर्थः ।
[षाष्टिकः] षष्टिर्जीवितमानमस्य = षाष्टिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इलुक् ।
[साप्ततिकः] सप्ततिर्जीवितमानमस्य = साप्ततिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) इलुक् ।
[वार्षशतिकः] वर्षाणां शतं = वर्षशतम् । वर्षशतं जीवितमानमस्य = वार्षशतिकः । अनेन इकणप्र० , इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वार्षसहस्त्रिकः] वर्षाणां सहस्रं = वर्षसहस्रम् । वर्षसहस्रं जीवितमानमस्य = वार्षसहस्रिकः । अनेन इकणप्र० , इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[380]