SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३७९ हरतिर्देशान्तरप्रापणे चौर्ये वा । वहतिरुत्क्षिप्य धारणे । आवहतिरुपादाने ॥छ।। द्रव्य-वस्नात् केकम् ॥ ६।४।१६७ ।। [द्रव्यवस्नात् ] द्रव्यश्च वस्नश्च = द्रव्यवस्नम्, तस्मात् । [केकम् ] कश्च इकश्च = केकम् । प्रथमा सि । [ द्रव्यकः] द्रव्यं हरति वहत्यवहरति वा = द्रव्यकः । [वस्निकः] वस्नं हरति वहत्यवहरति वा = वस्निकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। सोऽस्य भृति-वस्नांशम् ॥ ६।४।१६८ ॥ [सोऽस्य ] तद् प्रथमा सि । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'तः सौ सः' (२।१।४२) स० । 'सो रुः' (२।१।७२) स० → र० । अथवा सो पञ्चमी ङसि । सूत्रत्वाल्लुप् । इदम् षष्ठी ङस् । अथवा अस्य सप्तमी ङि । सूत्रत्वाल्लुप् । [भृतिवस्नांशम् ] भृतिश्च वस्नश्च अंशश्च = भृतिवस्नांशम् । भृतिवेतनम् । वस्नो नियतकालक्रयमूल्यम् । अंशो भागः । [पञ्चकः कर्मकरः] पञ्चन् । पञ्चास्य भृतिः = पञ्चकः । 'सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । कर्माणि करोति = कर्मकरः । 'भृतौ कर्मणः' (५।१।१०४) टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । [पञ्चकः पटः] पञ्चन् । पञ्चास्य वस्नं = पञ्चक: पटः । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [पञ्चकं नगरम् ] पञ्चन् । पञ्चास्यांशाः = पञ्चकं नगरम् । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [सप्तकः] सप्तास्य भृतिर्वस्नं अंशा वा = सप्तकः । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [अष्टकः] अष्टावस्य भृतिर्वस्नं अंशा वा = अष्टकः । 'सङ्ख्या -डतेश्चाऽशत्' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [शत्यः, शतिकः] शतमस्य भृतिवेतनं वस्नं अंशा वा = शत्यः, शतिकः । 'शतात् केवलादतस्मिन् येकौ' (६।४।१३१) य-इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । - [साहस्रः] सहस्रमस्य भृतिर्वस्नं अंशा वा = साहस्रः । 'सहस्र-शतमानादण' (६।४।१३६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [प्रास्थिकः] प्रस्थोऽस्य भृतिर्वस्नं अंशा वा = प्रास्थिकः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० ॥छ।। मानम् ॥ ६।४।१६९ ।। [मानम् ] मान सि-अम् । सोऽस्येति वर्त्तते । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [379]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy