________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३८७
[यः] य प्रथमा सि ।
[वा] वा प्रथमा सि ।
[शीर्षच्छेद्यः, शैर्षच्छेदिकश्चौरः] शीर्षच्छेदं नित्यमर्हति = शीर्षच्छेद्यश्चौरः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-शैर्षच्छेदिकः । 'तमर्हति' (६।४।१७७) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेर्जिति तद्धिते' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०॥छ।।
शालीन-कौपीना-ऽऽविजीनम् ।। ६।४।१८५ ॥
[शालीनकौपीनाऽऽविजीनम् ] शालीनश्च कौपीनश्च आविजीनश्च = शालीनकौपीनाऽऽविजीनम् ।
नित्यमिति निवृत्तम् ।
[शालीनः, शालीनाभार्यः] शालाप्रवेशन मण्ड्यते । शालाप्रवेशनमर्हति = शालीनः । अनेन ईनप्र० + ईन - उत्तरपदस्य च लुक् । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० । शालीना भार्या यस्य सः = शालीनाभार्यः । 'गोश्चान्ते हुस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) हुस्वः । अकारो वृद्धिनिमित्तत्वात् पुंवद्भावो न भवति । शालीनशब्दोऽधृष्टपर्यायः - भीरुरित्यर्थः ।
[कौपीनः] कूपप्रवेशन । कूपप्रवेशनमर्हति = कौपीनः । अनेन ईनप्र० →ईन - उत्तरपदस्य च लुक् । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । कौपीनशब्दः पापकर्मणि गोपनीयपायूपस्थे । उपस्थशब्देन सर्ववस्तूनां मध्यभागोऽभिधीयते इति गुह्यप्रतिपत्त्यर्थं गोपनीयग्रहणम् । गुदन्तायोनि तदावरणे च चीवरखण्डे च वर्त्तते ।
[आविजीनो यजमानः, आविजीन ऋत्विक् ] ऋत्विज् । ऋत्विजमर्हति = आविजीनः । अनेन ईनप्र० → ईन । कर्मन् । ऋत्विक्कर्माऽर्हति = आविजीनः । अनेन ईनप्र० → ईन - कर्मन् शब्दलोपश्च । वृद्धिः आर् । यजमानः ऋत्विगेव ॥छ।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां बहद्वत्तौ तद्धितावरिकायां
चतुर्थः पादः समाप्तः ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [387]