Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 397
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३७७ तत्राधेयस्य-ओदनादेः प्रमाणानतिरेकेण धारणं सम्भवः । अतिरेकेणावहारः । [प्रास्थिकः कटाहः, प्रास्थिकी स्थाली] प्रस्थं पचहारः । प्रस्थं पचति सम्भवत्यवहरति वा = प्रास्थिकः कटाहः । कडादि इति नाम प्रसिद्धिः । प्रास्थिकी । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण' (२।४।२०) ङी । [खारीकः] खारी । खारीं पचति सम्भवत्यवहरति वा = खारीकः । 'खारी-काकणीभ्यः कच्' (६।४।१४९) कच्प्र० → क । 'न कचि' (२।४।१०५) इत्यनेन ह्रस्वनिषेधः । [कौडविकः ] कुडवं पचति सम्भवत्यवहरति वा = कौडविकः । अनेन 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सम्भवतिः संमात्यर्थेऽकर्मकः, धारयत्यर्थे सकर्मकश्च । सम्भवतीति च सकर्मक इह ग्राह्यः । सम्भवति अवगृह्णातीत्यर्थः । चकारः पचत्यर्थेन सह सम्भवदवहरतोः समुच्चयार्थः, तेनोत्तरत्र यस्याप्यनुवृत्तिः ॥छ।। पात्रा-ऽऽचिता-ऽऽढकादीनो वा ॥ ६।४।१६३ ।। [पात्राऽऽचिताऽऽढकात् ] पात्रश्च आचितश्च आढकश्च = पात्राऽऽचिताऽऽढकम्, तस्मात् । [ईनः ] ईन प्रथमा सि । [वा] वा प्रथमा सि । [पात्रीणः, पात्रिकः, पात्रीणा, पात्रिकी स्थाली] पात्रं पचति सम्भवत्यवहरति वा = पात्रीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-पात्रिकः । 'इकण्' (६।४।१) इत्यनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० । 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । स्थाली । [आचितीना, आचितिकी, आढकीना, आढकिकी] आचितं आढकं च पचति सम्भवत्यवहरति वा । स्वमते पुल्लिङ्गः । परमते स्त्री-नपुंसकः । आचितीना, आढकीना । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'इकण्' (६।४।१) इकणप्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी। पात्रादयः परिमाणशब्दाः ॥छ। द्विगोरीनेकटौ वा ॥ ६।४।१६४ ॥ [द्विगो: ] द्विगु पञ्चमी ङसि । [ईनेकटौ ] ईनश्च इकट् च = ईनेकटौ । [वा] वा प्रथमा सि । [द्विपात्रीणः, द्विपात्रिकः, द्विपात्रः, द्विपात्रीणा, द्विपात्रिकी, द्विपात्री] द्वे पात्रे पचति संभवत्यवहरति वा = द्विपात्रीणः, द्विपात्रिकः । अनेन ईन - इकट्प्र० → इक । अनयोविधानसामर्थ्यान्न लुप् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-द्विपात्रः । 'संभवदवहरतोश्च' (६।४।१६२) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । एवमग्रेऽपि । 'आत्' (२।४।१८) आप्प्र० । 'अणजेयेकण' (२।४।२०) ङी । 'परिमाणात् तद्धित०' (२।४।२३) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [377]


Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444