Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 401
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३८१ [द्विषाष्टिकः] द्वे षष्टी जीवितमानमस्य = द्विषाष्टिकः । अनेन इकण्प्र० → इक । 'मान-संवत्सरस्याशाणकुलिजस्याऽनाम्नि' (७४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इवर्णस्य लुक् । [त्रिषाष्टिकः] तिस्रः त्रयो वा षष्टयो जीवितमानमस्य = त्रिषाष्टिकः । अनेन इकणप्र० + इक । 'मानसंवत्सरस्याशाण०' (७४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इवर्णस्य लुक् । [द्विसाप्ततिकः] द्वे सप्तती जीवितमानमस्य = द्विसाप्ततिकः । अनेन इकण्प्र० → इक । 'मानसंवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [त्रिसाप्ततिकः] तिस्रः सप्ततयो जीवितमानमस्य = त्रिसाप्ततिकः । अनेन इकण्प्र० → इक । 'मानसंवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [द्विवार्षशतिकः] द्वे वर्षशते जीवितमानमस्य = द्विवार्षशतिकः । अनेन इकण्प्र० → इक । 'मानसंवत्सरस्याशाण०' (७४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । [त्रिवार्षशतिकः] त्रीणि वर्षशतानि जीवितमानमस्य = त्रिवार्षशतिकः । अनेन इकण्प्र० , इक । 'मानसंवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [द्विवार्षसहस्त्रिकः] द्वे वर्षे सहस्र जीवितमानमस्य = द्विवार्षसहस्रिकः । अनेन इकणप्र० → इक । 'मानसंवत्सरस्याशाण०' (७४/१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [त्रिवार्षसहस्त्रिकः] त्रीणि वर्षसहस्राणि जीवितमानमस्य = त्रिवार्षसहस्रिकः । अनेन इकणप्र० → इक । 'मानसंवत्सरस्याशाण०' (७४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । कथं पुनः षष्ट्यादयो जीवितमानं भवन्ति । वृत्तौ वर्षशत(ब्द)लोपात् । यथा “शतायुर्वै पुरुष" इति शतं वर्षाणि आयुर्यस्य सः । 'पृषोदरादयः (३।२।१५५) इत्यनेन मध्यमपदलोपः ॥छ।। सङ्ख्यायाः सङ्घ-सूत्र-पाठे ॥ ६।४।१७१ ॥ [सङ्ख्यायाः] सङ्ख्या पञ्चमी ङसि । [ सङ्घसूत्रपाठे ] सङ्घश्च सूत्रं च पाठश्च = सङ्घसूत्रपाठम्, तस्मिन् । [पञ्चकः सङ्घः] पञ्च गावो मानमस्य = पञ्चकः । 'सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [सप्तकः] सप्त गावो मानमस्य = सप्तकः । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । [अष्टकं पाणिनीयं सूत्रम् ] अष्टन् । अष्टौ अध्याया मानमस्य = अष्टकम् । 'सङ्ख्या -डतेश्चाऽशत्' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । पाणिनीयं सूत्रम् । [दशकं वैयाघ्रपदीयम् ] दश अध्याया मानमस्य = दशकम् । 'सङ्ख्या -डतेश्चाऽशत्' (६।४।१३०) कप्र० । व्याघ्रस्येव पादौ यस्य । 'पात् पादस्याऽहस्त्यादेः' (७।३।१४८) पाद० → पात्देशः । व्याघ्रपादोऽपत्यं = वैयाघ्रपद्यम् । 'गर्गादेर्यज्' (६।१।४२) यप्र० + य । 'लोकात्' (१।१।३) व् पाठउ विश्लेषियइ । 'य्वः पदान्तात् प्रागैदौत् (७४।५) ऐ । 'य-स्वरे पादः पदणि-क्य-घुटि' (२।१।१०२) पद् । वैयाघ्रपद्येन प्रोक्तं = वैयाघ्रपदीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [381]

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444