Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३७९
हरतिर्देशान्तरप्रापणे चौर्ये वा । वहतिरुत्क्षिप्य धारणे । आवहतिरुपादाने ॥छ।।
द्रव्य-वस्नात् केकम् ॥ ६।४।१६७ ।। [द्रव्यवस्नात् ] द्रव्यश्च वस्नश्च = द्रव्यवस्नम्, तस्मात् । [केकम् ] कश्च इकश्च = केकम् । प्रथमा सि । [ द्रव्यकः] द्रव्यं हरति वहत्यवहरति वा = द्रव्यकः । [वस्निकः] वस्नं हरति वहत्यवहरति वा = वस्निकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।।
सोऽस्य भृति-वस्नांशम् ॥ ६।४।१६८ ॥ [सोऽस्य ] तद् प्रथमा सि । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'तः सौ सः' (२।१।४२) स० । 'सो रुः' (२।१।७२) स० → र० । अथवा सो पञ्चमी ङसि । सूत्रत्वाल्लुप् । इदम् षष्ठी ङस् । अथवा अस्य सप्तमी ङि । सूत्रत्वाल्लुप् ।
[भृतिवस्नांशम् ] भृतिश्च वस्नश्च अंशश्च = भृतिवस्नांशम् । भृतिवेतनम् । वस्नो नियतकालक्रयमूल्यम् । अंशो भागः ।
[पञ्चकः कर्मकरः] पञ्चन् । पञ्चास्य भृतिः = पञ्चकः । 'सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । कर्माणि करोति = कर्मकरः । 'भृतौ कर्मणः' (५।१।१०४) टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् ।
[पञ्चकः पटः] पञ्चन् । पञ्चास्य वस्नं = पञ्चक: पटः । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[पञ्चकं नगरम् ] पञ्चन् । पञ्चास्यांशाः = पञ्चकं नगरम् । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[सप्तकः] सप्तास्य भृतिर्वस्नं अंशा वा = सप्तकः । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[अष्टकः] अष्टावस्य भृतिर्वस्नं अंशा वा = अष्टकः । 'सङ्ख्या -डतेश्चाऽशत्' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[शत्यः, शतिकः] शतमस्य भृतिवेतनं वस्नं अंशा वा = शत्यः, शतिकः । 'शतात् केवलादतस्मिन् येकौ' (६।४।१३१) य-इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
- [साहस्रः] सहस्रमस्य भृतिर्वस्नं अंशा वा = साहस्रः । 'सहस्र-शतमानादण' (६।४।१३६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[प्रास्थिकः] प्रस्थोऽस्य भृतिर्वस्नं अंशा वा = प्रास्थिकः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० ॥छ।।
मानम् ॥ ६।४।१६९ ।। [मानम् ] मान सि-अम् । सोऽस्येति वर्त्तते ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [379]

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444