Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 396
________________ ३७६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [षष्ठिकः] षष् । षण्णां पूरणः = षष्ठः । 'षट्-कति-कतिपयात् थट्' (७१।१६२) थट्प्र० → थ । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवर्गो' (१।३।६०) थ० → ठ० । षष्ठमस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्कं वा देयं = षष्ठिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [अर्द्धिकः, अर्द्धिका स्त्री] अर्द्ध । अर्द्धमस्मिन्नस्मै वा वृद्धिरायो लाभ उपदा शुल्कं वा देयं = अद्धिकः, अद्धिका । अनेन इकप्र० । 'अवर्णवर्णस्य' (७/४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । अर्द्धशब्दो रूपकार्द्ध रूढः ॥छ।। भागाद् येकौ ॥ ६।४।१६० ॥ [ भागात् ] भाग पञ्चमी ङसि ।। [येकौ ] यश्च इकश्च = येकौ । [भाग्यः, भागिकः, भागिका स्त्री] भाग । भागोऽस्मिन्नस्मै वा वृद्धयादीनामन्यतमं देयं = भाग्यः, भागिकः । 'तदत्रास्मै वा०' (६।४।१५८) इति प्राप्तस्य अनेन अपवाद य-इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० + आ । भागशब्दोऽपि रूपकार्द्धस्य वाचकः ॥छ।। तं पचति द्रोणाद् वाऽञ् ॥ ६।४।१६१ ॥ [तम् ] तम् पञ्चमी ङसि । सूत्रत्वाल्लुप् । [पचति ] पचतीति पचत्, तस्मिन् । [द्रोणात् ] द्रोण पञ्चमी ङसि । [वा] वा प्रथमा सि । [अञ्] अञ् प्रथमा सि । [द्रौणः, द्रौणिकः] द्रोण । द्रोणं पचति = द्रौणः । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृद्धिः औ । एवम्-द्रौणिकः । 'इकण्' (६।४।१) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [द्रौणी, द्रौणिकी स्थाली गृहिणी वा] द्रोणे पचति = द्रौणी । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अणजेयेकण' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । एवम्-द्रौणिकी । 'इकण्' (६।४।१) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । स्थाली गृहिणी वा । [द्विद्रोणी] द्वौ द्रोणौ पचति = द्विद्रोणी । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन अप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) अजिकणोर्लुप् । 'परिमाणात् तद्धितलुक्यबिस्ताऽऽचितकम्बल्यात्' (२।४।२३) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।। सम्भवदवहरतोश्च ।। ६।४।१६२ ॥ [सम्भवदवरहतोः] सम्भवंश्च अवहरंश्च = सम्भवदवहरन्तौ, तयोः = सम्भवदहरतोः । सप्तमी ओस् । [च] च प्रथमा सि । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [376]

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444