Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 394
________________ ३७४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [पार्थिवः] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । ज्ञायते = ज्ञातः । 'ज्ञानेच्छा०' (५।२।९२) क्तप्र० → त । पृथिव्या ज्ञातः = पार्थिवः । अनेन अप्र० → अ । वृद्धिः आर् । अवर्णेवर्णस्य' (७४/६८) ईलुक् । कर्तरि षष्ठी सम्बन्धविवक्षायां वा । [सार्वभौमः] सर्वभूमेर्शातः = सार्वभौमः । अनेन अप्र० → अ । 'अनुशतिकादीनाम्' (७४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । [पार्थिवः] पृथिव्या हेतुः संयोग उत्पातो वा = पार्थिवः । अनेन अप्र० +अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। [सार्वभौमः] सर्वभूमेहेतुः संयोग उत्पातो वा = सार्वभौमः । अनेन अप्र० + अ । 'अनुशतिकादीनाम्' (७।४।२७) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । ईशज्ञातयोरिति द्विवचनं हेतुविशेषणत्वशङ्काव्यवच्छेदार्थम् ॥छ।। लोक-सर्वलोकाज्ज्ञाते || ६।४।१५७ ।। [लोकसर्वलोकात् ] लोकश्च सर्वलोकश्च = लोकसर्वलोकम्, तस्मात् । [ज्ञाते ] ज्ञात सप्तमी ङि । [लौकिकः] लोकस्य ज्ञातः = लौकिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। [सार्वलौकिकः] सर्वलोकस्य ज्ञातः = सार्वलौकिकः । अनेन इकण्प्र० + इक । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। तदत्राऽस्मै वा वृद्ध्याय-लाभोपदा-शुल्कं देयम् ॥ ६।४।१५८ ॥ [ तद् ] तद् पञ्चमी ङसि । सूत्रत्वाल्लुप् । [अत्र ] अत्र सप्तमी ङि । सूत्रत्वाल्लुप् । [अस्मै ] अस्मै चतुर्थी ङे । सूत्रत्वाल्लुप् । [वा] वा प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [वृद्धयायलाभोपदाशुल्कम् ] वृद्धिश्च आयश्च लाभश्च उपदा च शुल्कं च = वृद्ध्यायलाभोपदाशुल्कम् । [ देयम् ] देय प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । अधमर्णेनोत्तमाय गृहीतधनातिरिक्तं देयं वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । पटादीनामुपादानं मूल्यातिरिक्तं प्राप्तं द्रव्यं लाभः । उपदा उत्कोचः-लञ्च उत्कोट इति यावत् । निर्विश्यते-उपभुज्यते सुखमनेन वणिग्भिः = निर्वेशः । 'अच्' (५।११४९) अच्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । रक्षायै निर्वेशो भाटकं रक्षानिर्वेशः । वणिजां रक्षानिर्वेशो-राजभागः शुल्कम् । [पञ्चकं शतम् ] पञ्चास्मिन् शते वृद्धिः = पञ्चकं शतम् । 'सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[374]

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444