________________
३६८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
शाणात् ।। ६।४।१४६ ॥ [शाणात्] शाण पञ्चमी ङसि ।
[पञ्चशाण्यम्, पञ्चशाणम् ] पञ्चभिः शाणैः क्रीतं = पञ्चशाण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि-अम् ।
[अध्यर्द्धशाण्यम्, अध्यर्द्धशाणम् ] अध्यर्द्धन शाणेन क्रीतम् = अध्यर्द्धशाण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वितीये 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि-अम् ।
[अर्द्धपञ्चमशाण्यम्, अर्द्धपञ्चमशाणम् ] अर्द्धपञ्चमैः शाणैः क्रीतम् = अर्द्धपञ्चमशाण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । द्वितीये 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि-अम् ॥छ।।
___ द्वि-त्र्यादेर्याऽण् वा ॥ ६।४।१४७ ॥ [द्वित्र्यादेः] द्विश्च त्रिश्च = द्वित्री । द्वित्री आदिः(आदी) यस्य सः = द्विव्यादिः, तस्मात् । [याऽण् ] यश्च अण् च = याऽण् । प्रथमा सि । [वा] वा प्रथमा सि । वाग्रहणमुत्तरत्र नवानिवृत्त्यर्थम् ।
[द्विशाण्यम्, द्वैशाणम्, द्विशाणम् ] द्वाभ्यां शाणाभ्यां क्रीतं = द्विशाण्यम्, द्वैशाणम् । अनेन य-अण्प्र० → अ । वृद्धिः ऐ । एवम्-द्विशाणम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् ।
[त्रिशाण्यम्, त्रैशाणम्, त्रिशाणम् ] त्रिभिः शाणैः क्रीतं = त्रिशाण्यम्, त्रैशाणम् । अनेन य-अण्प्र० → अ । वृद्धिः ऐ । एवम्-त्रिशाणम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् ॥छ।।
पण-पाद-माषाद् यः ॥ ६।४।१४८ ॥ [पणपादमाषात् ] पणश्च पादश्च माषश्च = पणपादमाषम, तस्मात् । [यः] य प्रथमा सि । विधानसामर्थ्यान्न लुप् । [द्विपण्यम् ] द्वाभ्यां पणाभ्यां क्रीतं = द्विपण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [त्रिपण्यम् ] त्रिभिः पणैः क्रीतं = त्रिपण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ।
[अध्यर्द्धपण्यम् ] अध्यर्द्धन पणेन क्रीतम् = अध्यर्द्धपण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ।
[अर्द्धषष्ठपण्यम् ] अर्द्धषष्ठेन पण्येन क्रीतम् = अर्द्धषष्ठपण्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[द्विपाद्यम् ] द्वाभ्यां पादाभ्यां क्रीतं = द्विपाद्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [त्रिपाद्यम् ] त्रिभिः पादैः क्रीतं = त्रिपाद्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[अध्यर्द्धपाद्यम् ] अध्यर्द्धन पादेन क्रीतम् = अध्यर्द्धपाद्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[368]