________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३६९
माष-पणसाहचर्यात् पादः परिमाणं गृह्यते, न प्राण्यङ्गम् । तेन 'हिम-हति-काषि-ये पद्'(३।२।९६) इति पद्भावो न भवति । तत्र प्राण्यङ्गस्यैव ग्रहणात् । यद्वा पादसम्बन्धी यकारस्तत्र गृह्यते । अयं तु द्विगुसंबन्धीति न भवति ।
[द्विमाष्यम् ] द्वाभ्यां माषाभ्यां क्रीतं = द्विमाष्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [त्रिमाष्यम् ] त्रिभिर्माषैः क्रीतं = त्रिमाष्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[अध्यर्द्धमाष्यम् ] अध्यर्द्धन माषेण क्रीतम् = अध्यर्द्धमाष्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
खारी-काकणीभ्यः कच् ॥ ६।४।१४९ ॥ [खारीकाकणीभ्यः] खार्यश्च काकण्यश्च = खारीकाकण्यस्ताभ्यः । [कच्] कच् प्रथमा सि । [द्विखारीकम् ] द्वाभ्यां खारीभ्यां क्रीतं = द्विखारीकम् । अनेन कच्प्र० → क । सि-अम् । [त्रिखारीकम् ] तिसृभिः खारीभिः क्रीतं = त्रिखारीकम् । अनेन कच्प्र० → क । सि-अम् । [अध्यर्द्धखारीकम् ] अध्यर्द्धया खार्या क्रीतम् = अध्यर्द्धखारीकम् । अनेन कच्प्र० → क । सि-अम् ।
[अर्द्धतृतीयखारीकम् ] अर्द्ध तृतीयं यस्याः सा = अर्द्धतृतीया । अर्द्धतृतीयया खार्या क्रीतम् = अर्द्धतृतीयखारीकम् । अनेन कच्प्र० → क । सि-अम् ।
[द्विकाकणीकम् ] द्वाभ्यां काकणीभ्यां क्रीतं = द्विकाकणीकम् । अनेन कच्प्र० + क । सि-अम् । [त्रिकाकणीकम् ] तिसृभिः काकणीभिः क्रीतं = त्रिकाकणीकम् । अनेन कच्प्र० → क । सि-अम् ।
[अध्यर्द्धकाकणीकम् ] अधिकं अर्द्धं यस्याः सा = अध्यर्द्धा । अध्यर्द्धया काकण्या क्रीतम् = अध्यर्द्धकाकणीकम् । अनेन कच्प्र० → क । सि-अम् ।
[अर्द्धतृतीयकाकणीकम्] अर्द्ध तृतीयं यस्याः सा = अर्द्धतृतीया । अर्द्धतृतीयाभिः काकणीभिः क्रीतम् = अर्द्धतृतीयकाकणीकम् । अनेन कच्प्र० → क । सि-अम् ।
केवलाभ्याम् - [खारीकम् ] खार्या क्रीतं = खारीकम् । अनेन कच्प्र० → क । सि-अम् । [काकणीकम् ] काकण्या क्रीतं = काकणीकम् । अनेन कच्प्र० → क । सि-अम् । चकारो 'न कचि' (२।४।१०५) इत्यनेन विहितहस्वत्वस्य निषेधार्थः ॥छ।।
मूल्यैः क्रीते ॥ ६।४।१५० ॥ [ मूल्यैः ] मूल्य तृतीया भिस् । 'भिस ऐस्' (१।४।२) भिस्० → ऐस्० ।
[क्रीते] 'डुक्रींग्श् द्रव्यविनिमये' (११५०८) क्री । क्रीयते स्म = क्रीतः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त, तस्मिन् ।
[प्रास्थिकम् ] प्रस्थेन क्रीतं = प्रास्थिकम् । अनेन इकणप्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [369]