________________
३७०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[साप्ततिकम् ] सप्तत्या क्रीतं = साप्ततिकम् । अनेन इकण्प्र० → इक । वृद्धिः ।।
[आशीतिकम् ] अशीत्या क्रीतम् = आशीतिकम् । अनेन इकण्प्र० → इक । वृद्धिः । 'ऋवर्णोवर्णदोसिसुसश्वदकस्मात्त इकस्येतो लुक्' (७४/७१) - अथवा 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[नैष्किकम् ] निष्केण क्रीतम् । [पाणिकम् ] पणेन क्रीतम् । [पादिकम् ] पादेन क्रीतं = पादिकम् ।
[त्रिंशकम् ] त्रिंशत् । त्रिंशता क्रीतं = त्रिंशकम् । 'त्रिंशद्-विंशतेर्डकोऽसंज्ञायामार्हदर्थे' (६।४।१२९) डकप्र० → अक । 'डित्यन्त्यस्वरादेः' (२।१।११४) अत्लुक् ।
[विंशकम् ] विंशत्या क्रीतं = विंशकम् । 'त्रिंशद्-विंशतेर्डकोऽसंज्ञायामाहदर्थे' (६।४।१२९) डकप्र० → अक । 'विंशतेस्तेर्डिति' (७।४।६७) तिलोपः ।
[द्विकम् ] द्वि मण्ड्यते । द्वाभ्यां क्रीतं = द्विकम् । 'सङ्ख्या -डते०' (६।४।१३०) कप्र० । सि-अम् । [त्रिकम् ] त्रि मण्ड्यते । त्रिभिः क्रीतं = त्रिकम् । 'सङ्ख्या -डते.' (६।४।१३०) कप्र० । सि-अम् ।
[शत्यम् ] शतेन क्रीतं = शत्यम् । 'शतात् केवलादतस्मिन् येकौ' (६।४।१३१) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[शतिकम् ] शतेन क्रीतं = शतिकम् । 'शतात् केवलादतस्मिन् येकौ' (६।४।१३१) इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[द्विकम् ] द्वाभ्यां क्रीतं = द्विकम् । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । [त्रिकम् ] त्रिभिः क्रीतं = त्रिकम् । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० ।
[द्विप्रस्थम् ] द्वाभ्यां प्रस्थाभ्यां क्रीतं = द्विप्रस्थम् । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप्।
[त्रिप्रस्थम् ] त्रिभिः प्रस्थैः क्रीतं = त्रिप्रस्थम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् ।
[ मौगिकम्] मुद्गः क्रीतं = मौगिकम् । 'मूल्यैः क्रीते' (६४।१५०) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[माषिकम् ] माषेण क्रीतं = माषिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
नोकेन मुद्गेन माषेण वा क्रयः संभवति ॥छ।।
तस्य वापे || ६।४।१५१ ॥
[तस्य] तस्य पञ्चमी ङसि । सूत्रत्वाल्लुप् ।
[वापे] 'डुवपी बीजसन्ताने' (९९५) वप् । उप्यतेऽस्मिन्निति वापस्तस्मिन् । 'व्यञ्जनाद् घञ्' (५।३।१३२) घप्र० → अ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[370]