Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३६७
द्वि-त्रि-बहोर्निष्क-विस्तात् ॥ ६।४।१४४ ॥
[द्वित्रिबहोः] द्विश्च त्रिश्च बहुश्च = द्वित्रिबहु, तस्मात् । [निष्कविस्तात् ] निष्कश्च विस्तश्च = निष्कविस्तम्, तस्मात् ।
[द्विनिष्कम्, द्विनैष्किकम् ] नि 'षद्लं विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सद् । निषीदन्ति गुणा अत्र = निष्कः । 'निष्क-तुरुष्कोदर्का-ऽलर्क-शुल्क-श्वल्क-किञ्जल्कोल्का-वृक्कच्छेक-केका-यस्काऽऽदयः' (उणा० २६) निष्कं निपात्यते । द्वाभ्यां निष्काभ्यां क्रीतं = द्विनिष्कम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्याशाण-कुलिजस्याऽनाम्नि' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[त्रिनिष्कम्, त्रिनैष्किकम्] त्रिभिनिष्कैः क्रीतं = त्रिनिष्कम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[बहुनिष्कम्, बहुनैष्किकम् ] बहुभिनिष्कैः क्रीतं = बहुनिष्कम् । मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्या०' (७।४।१९) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम्।
[द्विविस्तम्, द्विवैस्तिकम् ] द्वाभ्यां विस्ताभ्यां क्रीतं = द्विविस्तम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्याशाण.' (७४/१९) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सिअम्।
[त्रिविस्तम्, त्रिवैस्तिकम् ] त्रिभिविस्तैः क्रीतं = त्रिविस्तम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । _[बहुविस्तम्, बहुवैस्तिकम् ] बहुभिविस्तैः क्रीतं = बहुविस्तम् । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० । अनेन वा लुप् । द्वितीये 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सिअम् ।।छ।।
शताद् यः ॥ ६।४।१४५ ।।
[शतात् ] शत पञ्चमी ङसि ।
[यः] य प्रथमा सि ।
[द्विशत्यम्, द्विशतम् ] द्वाभ्यां शताभ्यां क्रीतं = द्विशत्यम् । अनेन यप्र० । एवम्-द्विशतम् । 'सङ्ख्या -डतेश्चाऽशत्ति-ष्टेः कः' (६।४।१३०) कप्र० । 'अनाम्न्यद्विः प्लुप्'(६।४।१४१) लुप् । विधानसामर्थ्याद् यकारस्य न लुप् ।
_ [अध्यर्द्धशत्यम्, अध्यर्द्धशतम्] अध्यर्द्धन शतेन क्रीतम् = अध्यर्द्धशत्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वितीये 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । 'अनाम्न्यद्विः प्लुप्'(६।४।१४१) लुप् । सि-अम् ।
[अर्द्धषष्ठशत्यम्, अर्द्धषष्ठशतम् ] अर्द्ध षष्ठं येषां तानि-तैः = अर्द्धषष्ठैः शतैः क्रीतम् = अर्द्धषष्ठशत्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । द्वितीये 'सङ्ख्या -डतेश्चाऽशत्' (६।४।१३०) कप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् । सि-अम् ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [367]

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444