________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३६५
[अर्द्धपञ्चमशूर्पम् ] अर्द्धपञ्चमैः शूर्पः क्रीतम् = अर्द्धपञ्चमशूर्पम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे 'ङ्यादेर्गौणस्या०' (२।४।९५) ङीनिवृत्तिः ।
[द्विशूर्पम् ] द्वाभ्यां शूर्पाभ्यां क्रीतं = द्विशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । पक्षे 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । सि-अम् ।
[अध्यर्द्धशूर्पम् ] अध्यर्द्धन शूर्पण क्रीतम् = अध्यर्द्धशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । पक्षे 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । सि-अम् । ___ [अर्द्धपञ्चमशूर्पम् ] अर्द्धपञ्चमैः शूपैः क्रीतम् = अर्द्धपञ्चमशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । पक्षे 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । सि-अम् ।
[द्विशौर्पिकम् ] द्वाभ्यां शूर्पाभ्यां क्रीतं = द्विशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । अनेन लुप् । द्विशूर्पण क्रीतं = द्विशौर्पिकम् । 'सङ्ख्यादेश्चाऽऽहंदलुचः' (६।४।८०) इत्यत्र अलुच इति भणनात् लुचि सत्यां 'शूर्पाद् वाऽञ्' (६।४।१३७) न भवति, ततः 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० → इक । 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पाञ्चमलोहितिकम्] पञ्चन्-लोहित । 'श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च' (२।४।३६) ङी - तस्य नदेशः। 'अस्य यां लुक् (२।४।८६) अलुक् । पञ्च लोहिन्यः परिमाणमस्य = पाञ्चलोहितिकम् । अनेन 'मानम्' (६।४।१६९) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) ईलुक् । 'जातिश्च-णि-तद्धितय-स्वरे' (३।२।५१) पुंवद्भावः ।
[पाञ्चकलायिकम् ] पञ्चन्-कला । पञ्च कलायाः परिमाणमस्य = पाञ्चकलायिकम् । 'मानम्' (६।४।१६९) इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[पञ्चगर्गः] पञ्चन्-गर्ग । गर्गस्यापत्यं वृद्धं स्त्री = गार्गी । 'गर्गादेर्यब्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'यो डायन् च वा' (२।४।६७) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् । पञ्चभिः गार्गीभिः क्रीतः = पञ्चगर्गः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन इकण्लुप् । 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) पुंवद्भावः, ततो 'योऽश्यापर्णान्त०' (६।१।१२६) यजो लुप् । न तु अत्र पुंवद्भावेनापि ङीनिवृत्तिः साध्या, सा च 'ङ्यादेौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः' (२।४।९५) इत्यनेनापि न भविष्यति, ततः किं लुपः पित्त्वेन ? सत्यम् - 'ङ्यादेhणस्या०' (२।४।९५) इति ङीनिवृत्तिरेव न स्त्रीनिवृत्तिः, अतः पित्त्वं कृत्वा 'क्यङ्-मानि-पित्तद्धिते' (३।२।५०) इति स्त्रीत्य(व)निवृत्त्यर्थः पुंवद्भावः कार्यः, तस्मिन् सति 'यज्ञोऽश्यापर्णान्त-गोपवनादेः' (६।१।१२६) इति यत्रो लुप् भवतीति शेषः ।
[द्विषाष्टिकम् ] द्वाभ्यां षष्टिभ्यां क्रीतं = द्विषाष्टिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'मानसंवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । सि-अम् ।
[त्रिषाष्टिकम् ] त्रिभिः तिसृभिर्वा षष्टिभिः क्रीतं = त्रिषाष्टिकम् । पुं-स्त्री-क्लीबत्वात् षष्टेः । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ॥छ।।
नवाऽणः ।। ६।४।१४२ ।। [नवा] नवा प्रथमा सि । [अणः] अण् षष्ठी ङस् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [365]