________________
३६४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
द्विगोरीनः ॥ ६।४।१४० ॥ [द्विगोरीनः] द्विगु पञ्चमी ङसि । ईन प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[द्विविंशतिकीनम् ] विंशतिर्मानमस्य = विंशतिकः । 'सङ्ख्या -डतेश्चाऽशत् ति-ष्टेः कः' (६।४।१३०) कप्र० । द्विपूर्व० । द्वाभ्यां विंशतिकाभ्यां क्रीतं = द्विविंशतिकीनम् ।
[त्रिविंशतिकीनम् ] त्रिभिर्विंशतिकैः क्रीतं = त्रिविंशतिकीनम् ।
[अध्यर्द्धविंशतिकीनम् ] अधि-अर्द्ध । अधिकमर्द्धं यस्य सः = अध्यर्द्धः । अध्यर्द्धन विंशतिकेन क्रीतम् = अध्यर्द्धविंशतिकीनम्।
[अर्द्धपञ्चमविंशतिकीनम् ] अर्द्ध पञ्चमं येषां ते = अर्द्धपञ्चमाः । अर्द्धपञ्चमैः विंशतिकैः क्रीतम् = अर्द्धपञ्चमविंशतिकीनम् । अनेन ईनप्र० । विधानसामर्थ्याद् अस्य = ईनस्य न लुप् । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ॥छ।।
अनाम्न्यद्विः प्लुप् ॥ ६।४।१४१ ॥ [अनाम्नि ] न नाम = अनाम, तस्मिन् ।
[अद्विः] द्वि । द्वौ वारावस्य = द्विः । 'द्वि-त्रि-चतुरः सुच' (७२।११०) सुचप्र० । न द्विः = अद्विः । 'क्रियाविशेषणात्' (२।२।४१) अम् । 'अनतो लुप्' (१।४।५९) लुप् ।
[प्लुप् ] पकारेण उपलक्षितो लुप् = प्लुप् । प्रथमा सि ।
[द्विकंसम् ] द्वाभ्यां कंसाभ्यां क्रीतं = द्विकंसम् । द्वयोः कंसयोः समाहारः = द्विकंसी । 'द्विगो: समाहारात्' (२।४।२२) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । द्विकंस्या क्रीतं वा । 'कंसा-ऽर्द्धात्' (६।४।१३५) इकटप्र० । अनेन चतुर्ध्वपि लुप् । प्रथमे 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । एवमग्रेऽपि । 'ङ्यादेौणस्या०' (२।४।९५) ङीनिवृत्तिः ।
[त्रिकंसम् ] त्रिभिः कंसैः क्रीतं = त्रिकंसम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे त्रयोः कंसयोः समाहारः । शेषं पूर्ववत् । 'झ्यादेhणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः' (२।४।९५) ङीनिवृत्तिः ।
[अध्यर्द्धकंसम् ] अध्यर्द्धन कंसेन क्रीतम् = अध्यर्द्धकंसम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे अध्यद्धयोः कंसयोः समाहारः । शेषं पूर्ववत् । 'ङ्यादेगौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः' (२।४।९५) ङीनिवृत्तिः ।
[अर्द्धपञ्चमकंसम् ] अर्द्धपञ्चमैः कंसैः क्रीतम् = अर्द्धपञ्चमकंसम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे अर्द्धपञ्चमयोः कंसयोः समाहारः । शेषं पूर्ववत् । 'ङ्यादेर्गौण०' (२।४।९५) ङीनिवृत्तिः ।
[द्विशूर्पम् ] द्वाभ्यां शूर्पाभ्यां क्रीतं = द्विशूर्पम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे 'ङ्यादेर्गौण०' (२।४।९५) ङीनिवृत्तिः । ।
[त्रिशूर्पम् ] त्रिभिः शूर्पः क्रीतं = त्रिशूर्पम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे 'ङ्यादेर्गौण०' (२।४।९५) ङीनिवृत्तिः । ।
[अध्यर्द्धशूर्पम् ] अध्यर्द्धन शूर्पण क्रीतम् = अध्यर्द्धशूर्पम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे 'झ्यादेhणस्या०' (२।४।९५) ङीनिवृत्तिः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [364]