SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३६३ [अर्द्धकर्षिकम्, अर्द्धकर्षिकी ] अर्द्धकर्षेण क्रीतम् = अर्द्धकर्षिकम् । अनेन इकटप्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी ॥छ।। कंसा-ऽर्द्धात् ॥ ६।४।१३५ ॥ [कंसाऽर्द्धात् ] कंसश्च अर्द्धश्च = कंसाऽर्द्धस्तस्मात् । [कंसिकम्, कंसिकी] कंसेन क्रीतं = कंसिकम् । अनेन इकटप्र० → इक | 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी । [अर्द्धिकम्, अर्द्धिकी] अर्द्धन क्रीतम्-अर्द्धिकम् । अनेन इकट्प्र० , इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । द्वितीये 'अणजेयेकण्-न-स्नञ्-टिताम्' (२।४।२०) ङी ॥छ।। सहस्त्र-शतमानादण् ॥ ६।४।१३६ ॥ [ सहस्रशतमानात् ] सहस्रश्च शतमानश्च = सहस्रशतमानम्, तस्मात् । [अण्] अण् प्रथमा सि । [साहस्त्रः] सहस्रेण क्रीतः = साहस्रः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। [शातमानः ] शतमान । शतमानेन क्रीतः = शातमानः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। शूर्पाद् वाऽञ् ॥ ६।४।१३७ ॥ [शूर्पात् ] शूर्प पञ्चमी ङसि । [वा] वा प्रथमा सि । [अञ्] अञ् प्रथमा सि । [शौर्पम्, शौर्पिकम् ] शूर्पण क्रीतं = शौर्पम् । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-शौर्पिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । छ । वसनात् ॥ ६।४।१३८ । [वसनात् ] वसन पञ्चमी ङसि । [वासनम् ] वसनेन क्रीतं = वासनम् । अनेन अप्र० + अ । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। विंशतिकात् ॥ ६।४।१३९ ॥ [विंशतिकात्] विंशतिक पञ्चमी ङसि । [वैशतिकम्] विंशति । विंशतिर्मानमस्य = विंशतिकम् । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । विंशतिकेन क्रीतं = वैंशतिकम् । अनेन अण्प्र० + अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ॥छ। Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [363]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy