________________
३६२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[यावतिकम्, यावत्कम् ] यावत् मण्ड्यते । यावद्भिः क्रीतं = यावतिकम् । अनेन इकप्र० । एवम्-यावत्कम् । 'सङ्ख्या०' (६।४।१३०) कप्र० । सि-अम् ।
[तावतिकम्, तावत्कम् ] तावत् मण्ड्यते । तावद्भिः क्रीतं = तावतिकम् । अनेन इकप्र० । एवम्-तावत्कम् । 'सङ्ख्या०' (६।४।१३०) कप्र० । सि-अम् । विधानसामर्थ्यात् 'ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७।४।७१) इत्यादिना इकारस्य लोपो न भवति ॥छ।।
कार्षापणादिकट प्रतिश्चास्य वा ।। ६।४।१३३ ॥
[कार्षापणात्] कर्ष 'आप्लँट व्याप्तौ' (१३०७) आप् । कर्षण आप्यते = कर्षापणम् । अनटप्र० → अन । 'र-घुवर्णान्नो ण०' (२।३।६३) न० णत्वे कर्षापणमेव = कार्षापणम् । 'प्रज्ञादिभ्योऽण्' (७२।१६५) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक्, तस्मात् ।
[इकट] इकट् प्रथमा सि । [प्रतिश्च ] प्रति प्रथमा सि । च प्रथमा सि ।
[अस्य] इदम् षष्ठी ङस् । 'आ द्वेरः' (२।१।४१) म० + अ । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'अनक् (२।१।३६) अ । 'टा-ङसोरिन-स्यौ' (१।४।५) स्यदेशः ।
[वा] वा प्रथमा सि ।
[कार्षापणिकम्, कार्षापणिकी, प्रतिकम्, प्रतिकी] कार्षापणेन क्रीतः(तं) क्रीता वा = कार्षापणिकम्, कार्षापणिकी । अनेन इकटप्र० → इक । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । एवम्-प्रतिकम्, प्रतिकी । अनेन इकटप्र० → इक - कार्षापणस्य च प्रतिरादेशः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् । 'अणजेयेकण्०' (२।४।२०) ङी ।
चकार आदेशस्य प्रत्ययसन्नियोगशिष्टत्वार्थः भणनार्थः ।।
[द्विकार्षापणम् ] द्वाभ्यां कार्षापणाभ्यां क्रीतं = द्विकार्षापणम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लुप् । सि-अम् ।
[अध्यर्द्धकार्षापणम्] अध्यर्द्धन कार्षापणेन क्रीतम् = अध्यर्द्धकार्षापणम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) इकण्लुप् । सि-अम् ॥छ।।
अर्द्धात् पल-कंस-कर्षात् ।। ६।४।१३४ ॥ [अर्द्धात् ] अर्द्ध पञ्चमी ङसि । [पलकंसकर्षात् ] पलश्च कंसश्च कर्षश्च = पलकंसकर्षम्, तस्मात् ।
[अर्द्धपलिकम्, अर्द्धपलिकी ] पलस्य अर्द्धम् = अर्द्धपलम् । अर्द्धपलेन क्रीतम् = अर्द्धपलिकम् । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी ।
[अर्द्धकंसिकम्, अर्द्धकंसिकी] अर्द्धकंसेन क्रीतम् = अर्द्धकंसिकम् । अनेन इकटप्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [362]