________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३६१
[साप्ततिकम् ] सप्तत्या क्रीतं = साप्ततिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ।
[आशीतिकम् ] अशीत्या क्रीतम् = आशीतिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् ।
[नावतिकम्] नवत्या क्रीतं = नावतिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ।
[षाष्टिकम् ] षष्ट्या क्रीतं = षाष्टिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् ॥छ।।
शतात् केवलादतस्मिन् येकौ ॥ ६।४।१३१ ॥ [शतात्] शत पञ्चमी ङसि । [केवलात् ] केवल पञ्चमी ङसि ।
[अतस्मिन् ] न सः = असस्तस्मिन् = अतस्मिन् । सप्तमी ङि । 'नबत्' (३।२।१२५) न० → अ० । ': स्मिन्'(१।४।८) ङि० → स्मिन्देशः ।
[येकौ ] यश्च इकश्च = येकौ ।
अतस्मिन् = स चेदर्थः - आर्हदर्थः वस्तुतः-परमार्थतः प्रकृत्यर्थादभिन्नो न भवति । भिन्नो भवतीत्यर्थः ।
[शत्यम्, शतिकम् ] शतेन क्रीतं = शत्यम् । अनेन यप्र० । एवम्-शतिकम् । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक्।
[शत्यः, शतिकः पुरुषः] शतं वर्षाणि मानमस्य = शत्यः, शतिकः । अनेन य-इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[द्विशतकम् ] द्वाभ्यामुत्तरं = व्युत्तरम् । व्युत्तरं शतं = द्विशतम् । द्विशतेन क्रीतं = द्विशतकम् । 'सङ्ख्या०' (६।४।१३०) कप्र० । सि-अम् ।
केवलात् 'सङ्ख्यादेश्चाऽऽहंदलुचः' (६।४।८०) इति प्राप्नोत्यस्य बाधनार्थमिदं वचनम् । [शतकं स्तोत्रम् ] शतं मानमस्य = शतकं स्तोत्रम् । 'सङ्ख्या -डतेश्चाऽशत्ति-ष्टेः कः' (६।४।१३०) कप्र० । सि-अम् ।
[शतकं निदानम् ] शतमध्याया मानमस्य = शतकम् । 'सङ्ख्या०' (६।४।१३०) कप्र० । सि-अम् । निदानंकारणप्रतिपादकं वैद्यशास्त्रमुच्यते । अत्र हि प्रकृत्यर्थ एव श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते । अन्यस्मिंस्तु शते भवत्येव ।
[शत्यम्, शतिकम् ] शतेन क्रीतं शाटकस्य शतं = शत्यम्, शतिकम् । अनेन य-इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। सि-अम् ॥छ।।
वाऽतोरिकः ॥ ६।४।१३२ ॥ [वा] वा प्रथमा सि । [अतोरिकः] अतु पञ्चमी ङसि । इक प्रथमा सि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [361]