________________
३६०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[त्रिंशत्कम् ] त्रिंशता क्रीतं = त्रिंशत्कम् । 'सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः' (६।४।१३०) कप्र० । सि-अम् । [विंशतिकम् ] विंशत्या क्रीतं = विंशतिकम् । 'सङ्ख्या -डतेश्चाऽशत्०' (६।४।१३०) कप्र० । सि-अम् । वैद्यशास्त्रयोः कयोश्चिन्नाम्नी ॥छ।।
सङ्ख्या -डतेश्चाऽशत्-ति-ष्टेः कः ॥ ६।४।१३० ॥ [सङ्ख्याडतेः] सङ्ख्या च डतिश्च = सङ्ख्याडति, तस्मात् । [च] च प्रथमा सि ।
[अशत्तिष्टेः ] शच्च तिश्च ष्टिश्च = शत्तिष्टिः । न शत्तिष्टिरशत्तिष्टिः, तस्मात् ।
[कः] क प्रथमा सि । [द्विकम् ] द्वाभ्यां क्रीतं = द्विकम् । [त्रिकम् ] त्रिभिः क्रीतं = त्रिकम् ।
[पञ्चकम्] पञ्चभिः क्रीतं = पञ्चकम् ।
[बहुकम् ] बहुभिः क्रीतं = बहुकम् । [गणकम् ] गणैः क्रीतं = गणकम् । 'बहु-गणं भेदे' (२०४०) इत्यनेन सङ्ख्या , तस्याः फलमनेन कप्र० ।
[यावत्कम् ] यद् । यत् परिमाणमेषां = यावन्तः । 'यत्-तदेतदो डावादिः' (७।१।१४९) डावतुप्र० → आवत् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अल्लुक् । यावद्भिः क्रीतं = यावत्कम् । अनेन कप्र० ।
[तावत्कम्] तद् । तत् परिमाणमेषां = तावन्तः । 'यत्-तदेतदो डावादिः' (७१।१४९) डावतुप्र० → आवत् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अल्लुक् । तावद्भिः क्रीतं = तावत्कम् । अनेन कप्र० ।
[अध्यर्द्धकम् ] अधिकं अर्द्ध यस्याऽसौ अध्यर्द्धः । अध्यर्द्धन क्रीतम् = अध्यर्द्धकम् । अनेन कप्र० ।
[अर्द्धपञ्चमकम् ] अर्द्ध पञ्चमं येषां ते = अर्द्धपञ्चमाः । अर्द्धपञ्चमैः क्रीतम् = अर्द्धपञ्चमकम् । अनेन कप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
[कतिकम् ] किम् । का सङ्ख्या मानमेषां = कति । 'यत्-तत्-किमः सङ्ख्याया डतिर्वा' (७।१।१५०) अतिप्र०डतिसंज्ञकः । 'डित्यन्त्य०' (२।१२११४) इम्लुक् । कतिभिः क्रीतं = कतिकम् । अनेन कप्र० । सि-अम् ।
[त्रिंशत्कम् ] त्रिंशत् । त्रिंशता क्रीतं = त्रिंशत्कम् । अनेन कप्र० । सि-अम् । [विंशतिकम् ] विंशति । विंशत्या क्रीतं = विंशतिकम् । अनेन कप्र० । सि-अम् ।
[चात्वारिंशत्कम् ] चत्वारिंशता क्रीतं = चात्वारिंशत्कम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । वृद्धिः । 'ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त०' (७।४।७१) इकणः इलुक् । सि-अम् ।
[पाञ्चाशत्कम्] पञ्चाशता क्रीतं = पाञ्चाशत्कम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक | वृद्धिः । 'ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त०' (७४/७१) इकणः इलुक् । सि-अम् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [360]