SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ आकालिकमिकश्चाद्यन्ते || ६|४|१२८ ॥ [ आकालिकम् ] आकालिक प्रथमा सि । [ इकश्च ] इक प्रथमा सि । च प्रथमा सि । [ आद्यन्ते ] आदिवासावन्तञ्च आदिच अन्तश्च इति द्वन्द्वे धर्मार्थादित्वात् एकत्वम् तस्मिन् । [ आकालिकोऽनध्यायः, आकालिका आकालिकी वा वृष्टिः] आकालं भवति आकालिकः । अनेन इकप्र० निपात्यते । ‘अवर्णेवर्णस्य' (७|४|६८) अलुक् । पूर्वेद्युर्यस्मिन् काले तृतीये चतुर्थे वा यामे प्रवृत्तः पुनरपरेद्युरपि आ तस्मात् कालाद्भवन् आकालिकोऽनध्याय उच्यते । एवम् आकालिका, आकालिकी वा । अनेन इकण्प्र० → इक । वृद्धिः - निपात्यते च । 'अणवेयेकण्०' (२४२० ) ङी । एवं स्त्रियामिकेकणोविशेषो ज्ञेयः । [ आकालिका आकालिकी वा विद्युत् ] आकालिका वाक्यं पूर्ववत् । अनेन इकप्रत्ययान्ते निपात्यते । 'आत्' (२|४|१८) आप्प्र० । आकालिकी वाक्यं पूर्ववत् । अनेन इकण्प्र० इक । वृद्धिः निपात्यते च । 'अणवेयेकण्०' (२४।२० ) ङी विद्युत् आजन्मकालमेव भवन्ती जन्मानन्तरविनाशिनी ऊर्ध्वमननुवर्त्तमाना एवमुच्यते । एवं च द्वेधाप्यादिरेवान्तो भवति । अथवा [त्रिंशद्विशते: ] त्रिंशच्च विंशतिश्च = त्रिंशद्विंशति, तस्मात् । [ डक: ] डक प्रथमा सि । [ असंज्ञायाम् ] न संज्ञा असंज्ञा, तस्याम् । = " [ आकालिकोऽनध्यायः आकालिका आकालिकी वा कालावाद्यन्तावस्य = आकालिकोऽनध्यायः । अनेन इक - इकण्प्र० वृद्धिः । ‘अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वितीये 'आत्' (२|४|१८) आप्प्र० । तृतीये 'अणञेयेकण्०' (२।४।२०) ङी । विद्युत् । समानकालता चाद्यन्तयोः पूर्ववद्वेदितव्या ॥छ । त्रिंशद् विंशतेकोऽसंज्ञायामादर्थे || ६|४|१२९ ॥ = [ आर्हदर्थे ] अर्हंश्चासावर्थश्च = अर्हदर्थस्तस्मात् = आर्हदर्थात् आ = आर्हदर्थम्, तस्मिन् । [ त्रिंशकम् ] त्रिंशत् । त्रिंशता क्रीतं त्रिंशकम् । अनेन डकप्र० अल्लुक् । = [त्रिंशकः ] त्रिंशत् । त्रिंशतमर्हति त्रिंशकः । अनेन डकप्र० । = = ३५९ विद्युत् ] समानकाल मण्ड्यते I समानइक समानकालशब्दस्य अकाल आदेशः । [विंशकम् ] विंशत् । विंशत्या क्रीतं = विंशकम् । अनेन डकप्र० → अक । 'विशतेस्तेर्डिति' (७२४॥६७) तिलोपः । 'डित्यन्त्यस्वरादेः' (२|१|११४) अलुक् । अक 'डित्यन्त्यस्वरादेः' (२|१|११४) [विंशकः ] विंशतिमर्हति विंशकः । अनेन डकप्र० 'डित्यन्त्यस्वरादेः' (२।१।११४) अलुक् । प्रथमा सि । 'सो रु: ' (२।१।७२ ) स०र० । आर्हदर्थ इत्यभिविधानाकारः । मध्यमवृतौ - आदिश्चासावन्तश्च आद्यन्त इति कर्मधारय एव कर्त्तव्यः, न तु आदिश्चान्तश्च इति द्वन्द्वः । । अक 'डित्यन्त्यस्वरादे: ' (२।१।११४) अल्लुक् । अक । 'विशतेस्तेडिति' ( ७४६७) तिलोपः । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [359]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy