________________
३५८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पुण्याहवाचनम् ] पुण्य-अहन् । पुण्यं च तद् अहश्च = पुण्याहम् । 'अह्नः' (७।३।११६) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक् । पुण्याहस्य वाचन प्रयोजनमस्य = पुण्याहवाचनम् । 'प्रयोजनम्' (६।४।११७) इकण्प्र० । अनेन लुप् । सि-अम् ॥छ।।
समयात् प्राप्तः ।। ६।४।१२४ ॥ [समयात् ] समय पञ्चमी ङसि । [प्राप्तः] प्राप्त प्रथमा सि । सोऽस्येत्यनुवर्तते ।
[सामयिकं कार्यम् ] समयः प्राप्तोऽस्य = सामयिकं कार्यम् । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । उपनतकालमित्यर्थः ॥छ।।
ऋत्वादिभ्योऽण् ।। ६।४।१२५ ॥ [ऋत्वादिभ्यः ] ऋतुरादिर्येषां ते = ऋत्वादयः, तेभ्यः = ऋत्वादिभ्यः । पञ्चमी भ्यस् । [अण्] अण् प्रथमा सि । [आर्तवं पुष्पफलम् ] ऋतुः प्राप्तोऽस्य = आर्तवं पुष्पफलम् । अनेन अण्प्र० → अ । वृद्धिः आर् ।
[औपवस्त्रम् ] उपवस्तृ मण्ड्यते । उपवस्ता प्राप्तोऽस्य = औपवस्त्रम् । अनेन अण्प्र० + अ । वृद्धिः औ । सि-अम् ।
[प्राशित्रम् ] प्राश्नातीति प्राशिता । 'णक-तृचौ' (५।१।४८) तृचप्र० → तृ । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् → इ । प्राशिता वाटनं वालेन यत् प्रथममन्नं भुज्यते तदित्यर्थः । प्राशिता प्राप्तोऽस्य = प्राशित्रम् । अनेन अण्प्र० → अ । वृद्धिः । तृ० →त्र० । सि-अम् ॥छ।।
कालाद् यः ।। ६।४।१२६ ।। [कालात् ] काल पञ्चमी ङसि । [यः] य प्रथमा सि ।
[काल्यस्तापसः] कालः प्राप्तोऽस्य = काल्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । तपस् । तपोऽस्मिन्नस्ति = तापसः । 'ज्योत्स्नादिभ्योऽण' (७२।३४) अण्प्र० → अ । वृद्धिः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[काल्या मेघाः] कालः प्राप्त एषां = काल्याः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् । मेघाः ॥छ।।
दीर्घः ॥ ६।४।१२७ ॥ [ दीर्घः ] दीर्घ प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[कालिकमृणम्, कालिकं वैरम्, कालिकी संपत्] दीर्घः कालोऽस्य = कालिकमृणम् । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । ऋणं-वैरं च । तृतीये 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[358]