________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३५७
[गोप्रपदनीयम् ] गवां प्रपदनं = गोप्रपदनम् । गोप्रपदनं प्रयोजनमस्य = गोप्रपदनीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
[प्रपापूरणीयम् ] पूरी(रै)चि आप्यायने' (१२६८) पूर् । पूर्यते = पूरणम् । अनटप्र० → अन । प्रपायाः पूरणं प्रयोजनमस्य = प्रपापूरणीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[महापूरणीयम् ] महच्च तत् पूरणं च = महापूरणम् । 'जातीयैकार्थेऽच्चेः' (३।२।७०) डा० → आ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अल्लक । महापूरणं प्रयोजनमस्य = महापूरणीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम्।
[अङ्गसमापनीयम् ] सम् 'आप्लृट् व्याप्तौ' (१३०७) आप् । समाप्यते = समापनम् । 'अनट्' (५।३।१२४) अनटप्र० → अन । अङ्गस्य समापनं प्रयोजनमस्य = अङ्गसमापनीयम् । अनेन ईयप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । सि-अम्।
[श्रुतस्कन्धसमापनीयम्] श्रुतस्य स्कन्धः = श्रुतस्कन्धः । श्रुतस्कन्धस्य समापनं प्रयोजनमस्य = श्रुतस्कन्धसमापनीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ।
[व्याकरणसमापनीयम् ] व्याकरणस्य समापनं प्रयोजनमस्य = व्याकरणसमापनीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम्॥छ।।
स्वर्ग-स्वस्तिवाचनादिभ्यो य-लुपौ ॥ ६।४।१२३ ।। [स्वर्गस्वस्तिवाचनादिभ्यः] स्वर्गश्च स्वस्तिवाचनादिश्च = स्वर्गस्वस्तिवाचनादयस्तेभ्यः = स्वर्गस्वस्तिवाचनादिभ्यः । पञ्चमी भ्यस्।
[यलुपौ] यश्च लुप् य = यलुपौ । [स्वय॑म् ] स्वर्गः प्रयोजनमस्य = स्वर्ग्यः(स्वर्ण्यम्) । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [ यशस्यम् ] यशः प्रयोजनमस्य = यशस्यम् । अनेन यप्र० ।
[आयुष्यम् ] आयुस् मण्ड्यते । आयुः प्रयोजनमस्य = आयुष्यम् । अनेन यप्र० । 'नाम्यन्तस्था-कवर्गात्०' (२।३।१५) षत्वम् ।
[काम्यम् ] कामं प्रयोजनमस्य = काम्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [धन्यम् ] धनं प्रयोजनमस्य = धन्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक । सि-अम् ।
[स्वस्तिवाचनम् ] स्वस्तिवाचनं प्रयोजनमस्य = स्वस्तिवाचनम् । 'प्रयोजनम्' (६।४।११७) इकण्प्र० । अनेन लुप् । सि-अम् ।
[शान्तिवाचनम् ] शान्तिवाचन प्रयोजनमस्य = शान्तिवाचनम् । 'प्रयोजनम्' (६।४।११७) इकण्प्र० । अनेन लुप् । सि-अम् ।
ॐ श०म० न्या०-स्वर्गश्च स्वस्तिवाचनं च चेति इतरेतरयोगद्वन्द्वस्यादिशब्देन बहुव्रीहिः ।
मध्यमवृतौ-स्वर्गश्च स्वस्तिवाचनं च, ते आदी यस्य गणस्य, तेभ्यः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [357]