________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[द्विसहस्त्रम्, द्विसाहस्रम् ] द्वाभ्यां सहस्राभ्यां क्रीतं = द्विसहस्रम् । 'सहस्र-शतमानादण' (६।४।१३६) अण्प्र० । अनेन लुप् । एवम्-द्विसाहस्रम् । अणोऽलोपे सति 'मान-संवत्सरस्याशाण-कुलिजस्याऽनाम्नि' (७४।१९) उत्तरपदवृद्धिः ।
[अध्यर्द्धसहस्त्रम्, अध्यर्द्धसाहस्त्रम् ] अध्यर्द्धन सहस्त्रेण क्रीतम् = अध्यर्द्धसहस्त्रम् । 'सहस्र-शतमानादण' (६।४।१३६) अण्प्र० । अनेन लुप् । एवम्-अध्यर्द्धसाहस्रम् । अणोऽलोपे सति 'मान-संवत्सरस्या०' (७।४।१९) उत्तरपदवृद्धिः ।
[अर्द्धषष्ठसहस्त्रम्, अर्द्धषष्ठसाहस्रम्] अर्द्ध षष्ठं येषां ते = अर्द्धषष्ठाः । अर्द्धषष्ठैः सहस्रैः क्रीतम् = अर्द्धषष्ठसहस्रम् । 'सहस्त्र-शतमानादण' (६।४।१३६) अण्प्र० । अनेन लुप् । द्वितीये न लुप् । शेषं पूर्ववत् ।
[द्विशतमानम्, द्विशातमानम्] द्वाभ्यां शतमानाभ्यां क्रीतं = द्विशतमानम् । 'सहस्र-शतमानादण्' (६।४।१३६) अण्प्र० । अनेन लुप् । द्वितीये न अण्लुप् । 'मान-संवत्सरस्या०' (७४।१९) उत्तरपदवृद्धिः । सि-अम् ।
[अध्यर्द्धशतमानम्, अध्यर्द्धशातमानम्] अध्यर्द्धन शतमानेन क्रीतम् = अध्यर्द्धशतमानम् । 'सहस्र-शतमानादण्' (६।४।१३६) अण्प्र० । अनेन लुप् । द्वितीये न लुप् । 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । सि-अम् ।
[अर्द्धषष्ठशतमानम्, अर्द्धषष्ठशातमानम् ] अर्द्धषष्ठैः शतमानैः क्रीतम् = अर्द्धषष्ठशतमानम् । 'सहस्र-शतमानादण' (६।४।१३६) अण्प्र० । अनेन लुप् । द्वितीये न अण्लुप् । 'मान-संवत्सरस्याशाण०' (७।४।१९) उत्तरपदवृद्धिः । सि-अम् ।
[द्विद्रोणः] द्वौ द्रोणौ पचति = द्विद्रोणः । 'तं पचति द्रोणाद् वाऽञ्' (६।४।१६१) अप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) अञ्लु प् ।
[अध्यर्द्धद्रोणः] अध्यर्द्ध द्रोणं पचति = अध्यर्द्धद्रोणः । 'तं पचति द्रोणाद् वाऽज्' (६।४।१६१) अप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) अञ्लुप् ॥छ।।
सुवर्ण-कार्षापणात् ॥ ६।४।१४३ ॥ [सुवर्णकार्षापणात्] सुवर्णश्च कार्षापणश्च = सुवर्णकार्षापणम्, तस्मात् ।
[द्विसुवर्णम्, द्विसौवर्णिकम् ] द्वाभ्यां सुवर्णाभ्यां क्रीतं = द्विसुवर्णम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । एवम्-द्विसौवर्णिकम् । अत्र न लुप् । 'मान-संवत्सरस्याशाण०' (७४।१९) उत्तरपदवृद्धिः ।
[द्विकार्षापणम्, द्विकार्षापणिकम् ] द्वाभ्यां कार्षापणाभ्यां क्रीतं = द्विकार्षापणम् । एवम्-द्विकार्षापणिकम् । 'कार्षापणादिकट' (६।४।१३३) इकट्प्र० उभयत्र । अनेन प्रथमे लुप् ।
[द्विप्रतिकम् ] द्वाभ्यां प्रतिभ्यां(कार्षापणाभ्यां) क्रीतं = द्विप्रतिकम् । 'प्रतिश्चास्य वा' (६।४।१३३) इकट्प्र० → इक । 'ऋवणोवर्ण-दोसिसुस०' (७४/७१) इलुक् ।
[अध्यर्द्धकार्षापणम्, अध्यर्द्धकार्षापणिकम् ] अध्यर्द्धन कार्षापणेन क्रीतम् = अध्यर्द्धकार्षापणम् । 'कार्षापणादिकट०' (६।४।१३३) इकट्प्र० । अनेन लुप् । एवम्-अध्यर्द्धकार्षापणिकम् । अत्र न लुप् ।
[अध्यर्द्धप्रतिकम् ] अध्यर्द्धन प्रतिना(कार्षापणेन) क्रीतम् = अध्यर्द्धप्रतिकम् । 'प्रतिश्चास्य वा' (६।४।१३३) इकट्प्र० → इक । 'ऋवर्णोवर्ण०' (७४/७१) इलुक् । सि-अम् ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[366]