Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 384
________________ ३६४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । द्विगोरीनः ॥ ६।४।१४० ॥ [द्विगोरीनः] द्विगु पञ्चमी ङसि । ईन प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । [द्विविंशतिकीनम् ] विंशतिर्मानमस्य = विंशतिकः । 'सङ्ख्या -डतेश्चाऽशत् ति-ष्टेः कः' (६।४।१३०) कप्र० । द्विपूर्व० । द्वाभ्यां विंशतिकाभ्यां क्रीतं = द्विविंशतिकीनम् । [त्रिविंशतिकीनम् ] त्रिभिर्विंशतिकैः क्रीतं = त्रिविंशतिकीनम् । [अध्यर्द्धविंशतिकीनम् ] अधि-अर्द्ध । अधिकमर्द्धं यस्य सः = अध्यर्द्धः । अध्यर्द्धन विंशतिकेन क्रीतम् = अध्यर्द्धविंशतिकीनम्। [अर्द्धपञ्चमविंशतिकीनम् ] अर्द्ध पञ्चमं येषां ते = अर्द्धपञ्चमाः । अर्द्धपञ्चमैः विंशतिकैः क्रीतम् = अर्द्धपञ्चमविंशतिकीनम् । अनेन ईनप्र० । विधानसामर्थ्याद् अस्य = ईनस्य न लुप् । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ॥छ।। अनाम्न्यद्विः प्लुप् ॥ ६।४।१४१ ॥ [अनाम्नि ] न नाम = अनाम, तस्मिन् । [अद्विः] द्वि । द्वौ वारावस्य = द्विः । 'द्वि-त्रि-चतुरः सुच' (७२।११०) सुचप्र० । न द्विः = अद्विः । 'क्रियाविशेषणात्' (२।२।४१) अम् । 'अनतो लुप्' (१।४।५९) लुप् । [प्लुप् ] पकारेण उपलक्षितो लुप् = प्लुप् । प्रथमा सि । [द्विकंसम् ] द्वाभ्यां कंसाभ्यां क्रीतं = द्विकंसम् । द्वयोः कंसयोः समाहारः = द्विकंसी । 'द्विगो: समाहारात्' (२।४।२२) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । द्विकंस्या क्रीतं वा । 'कंसा-ऽर्द्धात्' (६।४।१३५) इकटप्र० । अनेन चतुर्ध्वपि लुप् । प्रथमे 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । एवमग्रेऽपि । 'ङ्यादेौणस्या०' (२।४।९५) ङीनिवृत्तिः । [त्रिकंसम् ] त्रिभिः कंसैः क्रीतं = त्रिकंसम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे त्रयोः कंसयोः समाहारः । शेषं पूर्ववत् । 'झ्यादेhणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः' (२।४।९५) ङीनिवृत्तिः । [अध्यर्द्धकंसम् ] अध्यर्द्धन कंसेन क्रीतम् = अध्यर्द्धकंसम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे अध्यद्धयोः कंसयोः समाहारः । शेषं पूर्ववत् । 'ङ्यादेगौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः' (२।४।९५) ङीनिवृत्तिः । [अर्द्धपञ्चमकंसम् ] अर्द्धपञ्चमैः कंसैः क्रीतम् = अर्द्धपञ्चमकंसम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे अर्द्धपञ्चमयोः कंसयोः समाहारः । शेषं पूर्ववत् । 'ङ्यादेर्गौण०' (२।४।९५) ङीनिवृत्तिः । [द्विशूर्पम् ] द्वाभ्यां शूर्पाभ्यां क्रीतं = द्विशूर्पम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे 'ङ्यादेर्गौण०' (२।४।९५) ङीनिवृत्तिः । । [त्रिशूर्पम् ] त्रिभिः शूर्पः क्रीतं = त्रिशूर्पम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे 'ङ्यादेर्गौण०' (२।४।९५) ङीनिवृत्तिः । । [अध्यर्द्धशूर्पम् ] अध्यर्द्धन शूर्पण क्रीतम् = अध्यर्द्धशूर्पम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० । अनेन लुप् । द्वितीयपक्षे 'झ्यादेhणस्या०' (२।४।९५) ङीनिवृत्तिः । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [364]

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444