Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 358
________________ ३३८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [चान्द्रायणिकः] चन्द्र 'अयि गतौ' (७९०) अय् । चन्द्रेण अय्यते-ज्ञायते = चन्द्रायणम् । अनट्प्र० → अन । 'पूर्वपदस्थान्नाम्न्यगः' (२।३।६४) णत्वम् । चन्द्रायणं चरति = चान्द्रायणिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [द्वैचन्द्रायणिकः] द्वे चन्द्रायणे चरति = द्वैचन्द्रायणिकः । अनेन इकण्प्र० → इक । वृद्धिः । आर्हदर्थानुवृत्त्या 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् न भवति । [पारायणिकः] पारायणमधीते = पारायणिकः । 'तुरायण-पारायणं यजमाना-ऽधीयाने' (६।४।९२) इकण्प्र० → इक। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [द्वैपारायणिकः] द्वे पारायणे अधीते = द्वैपारायणिकः । 'तुरायण-पारायणं यजमाना-ऽधीयाने' (६४।९२) इकणप्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [ परमपारायणमधीते ] परमं च तत् पारायणं च = परमपारायणम्, तमधीते । [महापारायणमधीते ] महत्-पारायण । महच्च तत् पारायणं च = महापारायणः(णम्), तमधीते । 'जातीयैकार्थेऽच्चेः' (३।२१७०) डा० → आ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अल्लुक् । [द्विसाहस्रः] द्वि-सहस्र । द्वे सहस्रे, द्वाभ्यामधिकं सहस्रं = द्विसहस्रम् । 'मयूरव्यंसकेत्यादयः' (३।१।११६) समासः । 'सहस्र-शतमानादण' (६।४।१३६) । अण्प्र० । 'नवाऽणः' (६।४।१४२) वाऽण् लुप् । द्वयोः सहस्रं, द्वे सहस्रे यस्येति वा द्विसहस्रं वा अर्हति = द्विसाहस्रः । आईदर्थे अण्प्र० + अ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [द्विशौर्पिकम् ] द्वाभ्यां शूर्पाभ्यां क्रीतं = द्विशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । 'अनाम्न्यद्विः प्लुप् (६।४।१४१) अञ्लुप् । द्विशूर्पण क्रीतं = द्विशौपिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'मानसंवत्सरस्याशाण-कुलिजस्याऽनाम्नि' (७।४।१९) उत्तरपदवृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [त्रिशौर्पिकम्] त्रिभिः शूपैः क्रीतं = त्रिशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) अब्लुप् । पुनरपि त्रिशूर्पण क्रीतं = त्रिशौर्पिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'मानसंवत्सर०' (७।४।१९) उत्तरपदवृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । पुनरपि 'शूर्पाद् वाऽज्' (६।४।१३७) इत्यञ् न भवति ॥छ। गोदानादीनां ब्रह्मचर्ये ॥ ६।४।८१ ॥ [गोदानादीनाम् ] गोदान(नं) आदिर्येषां ते = गोदानादयः तेषाम् । [ ब्रह्मचर्ये ] ब्रह्मचर्य सप्तमी ङि । [गौदानिकम् ] गोदान । गोदानस्य ब्रह्मचर्यं = गौदानिकम् । यावद् गोदानं न करोमि तावद् ब्रह्मचर्यमित्यर्थः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [आदित्यवतिकम् ] आदित्यव्रतानां ब्रह्मचर्यं करोति = आदित्यव्रतिकम् । [माहानाम्निकम् ] महानाम्न्यो नाम तं व्रतमपि महानाम्न्यः । महानाम्नीनां ब्रह्मचर्यं = माहानाम्निकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । 'तद्धिताऽककोपान्त्यपूरण्याख्याः ' (३।२।५४) इति द्वारेण पुंवन्निषेधः ॥छ।। Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[338]|

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444