Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 381
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३६१ [साप्ततिकम् ] सप्तत्या क्रीतं = साप्ततिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् । [आशीतिकम् ] अशीत्या क्रीतम् = आशीतिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् । [नावतिकम्] नवत्या क्रीतं = नावतिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् । [षाष्टिकम् ] षष्ट्या क्रीतं = षाष्टिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् ॥छ।। शतात् केवलादतस्मिन् येकौ ॥ ६।४।१३१ ॥ [शतात्] शत पञ्चमी ङसि । [केवलात् ] केवल पञ्चमी ङसि । [अतस्मिन् ] न सः = असस्तस्मिन् = अतस्मिन् । सप्तमी ङि । 'नबत्' (३।२।१२५) न० → अ० । ': स्मिन्'(१।४।८) ङि० → स्मिन्देशः । [येकौ ] यश्च इकश्च = येकौ । अतस्मिन् = स चेदर्थः - आर्हदर्थः वस्तुतः-परमार्थतः प्रकृत्यर्थादभिन्नो न भवति । भिन्नो भवतीत्यर्थः । [शत्यम्, शतिकम् ] शतेन क्रीतं = शत्यम् । अनेन यप्र० । एवम्-शतिकम् । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक्। [शत्यः, शतिकः पुरुषः] शतं वर्षाणि मानमस्य = शत्यः, शतिकः । अनेन य-इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [द्विशतकम् ] द्वाभ्यामुत्तरं = व्युत्तरम् । व्युत्तरं शतं = द्विशतम् । द्विशतेन क्रीतं = द्विशतकम् । 'सङ्ख्या०' (६।४।१३०) कप्र० । सि-अम् । केवलात् 'सङ्ख्यादेश्चाऽऽहंदलुचः' (६।४।८०) इति प्राप्नोत्यस्य बाधनार्थमिदं वचनम् । [शतकं स्तोत्रम् ] शतं मानमस्य = शतकं स्तोत्रम् । 'सङ्ख्या -डतेश्चाऽशत्ति-ष्टेः कः' (६।४।१३०) कप्र० । सि-अम् । [शतकं निदानम् ] शतमध्याया मानमस्य = शतकम् । 'सङ्ख्या०' (६।४।१३०) कप्र० । सि-अम् । निदानंकारणप्रतिपादकं वैद्यशास्त्रमुच्यते । अत्र हि प्रकृत्यर्थ एव श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते । अन्यस्मिंस्तु शते भवत्येव । [शत्यम्, शतिकम् ] शतेन क्रीतं शाटकस्य शतं = शत्यम्, शतिकम् । अनेन य-इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। सि-अम् ॥छ।। वाऽतोरिकः ॥ ६।४।१३२ ॥ [वा] वा प्रथमा सि । [अतोरिकः] अतु पञ्चमी ङसि । इक प्रथमा सि । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [361]

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444