Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 372
________________ ३५२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [वा] वा प्रथमा सि । [द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः] द्वाभ्यां वर्षाभ्यां निर्वृत्तः । द्वौ वर्षों द्वे वर्षे वा भूतो भावी वा । द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा = द्विवर्षः-द्विवर्षीणः । अनेन अ-ईनप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'र-वर्णान्नो ण' (२।३।६३) न० →ण० । एवम्- द्विवार्षिक: । [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । 'संख्या-ऽधिकाभ्यां वर्षस्याऽभाविनि' (७।४।१८) इत्यनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । [त्रिवर्षः, त्रिवर्षीणः, त्रिवार्षिकः] त्रिभिर्वनिर्वृत्तः । त्रयो वर्षा (त्रीन् वर्षान्) तिस्रो वर्षा वा भूतो भावी वा । त्रिभिः(त्रिभ्यः) वर्षेः (वर्षेभ्यः) भृतोऽधीष्टो वा = त्रिवर्षः-त्रिवर्षीणः । अनेन अ-ईनप्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । एवम्-त्रिवार्षिक: । [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । 'संख्याऽधिकाभ्यां ०' (७।४।१८) इत्यनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । भाविनि तु उत्तरपदवृद्धिनिषेधात् [द्वैवर्षिकः] द्वौ वर्षों भावी = द्वैवर्षिक: । 'तं भावि-भूते' (६।४।१०६) इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। प्राणिनि भूते ॥ ६।४।११२ ॥ [प्राणिनि ] प्राणिन् सप्तमी ङि । [ भूते ] भूत पञ्चमी ङसि । [द्विवर्षों दारकः] द्वे वर्षे भूतः प्राप्तः = द्विवर्षः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'दृश् विदारणे' (१५३५) दृ । दृणाति-विदारयति शोकं जनकादीनामिति दारकः । 'णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः आर् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [त्रिवर्षो वत्सः] त्रीणि वर्षाणि भूतः प्राप्तः = त्रिवर्षः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७।४६८) अलुक् । वत्सः । [द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः सरकः] द्वौ वर्षों, द्वे वर्षे वा भूतः प्राप्तः = द्विवर्षः, द्विवर्षीणः । 'वर्षादश्च वा' (६।४।१११) अ-ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । एवम्-द्विवार्षिकः । 'निर्वृत्ते' (६।४।१०५) 'तं भावि-भूते' (६।४।१०६) इकण्प्र० → इक । 'संख्या-ऽधिकाभ्यां वर्षस्याऽभाविनि' (७।४।१८) उत्तरपदवृद्धिः । [द्विवर्षः, द्विवर्षीणः, द्विवार्षिको मनुष्यः] द्वे वर्षे भावी । द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा = द्विवर्षः । 'वर्षादश्च वा' (६।४।१११) अ-ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । एवम्-द्विवार्षिक: । [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिसूत्रैः इकण्प्र० → इक । 'संख्या-ऽधिकाभ्यां ०' (७४।१८) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । मनुष्यः ॥छ।। मासाद् वयसि यः ॥ ६।४।११३ ॥ [मासात् ] मास पञ्चमी ङसि । [वयसि] वयस् सप्तमी ङि । [यः] य प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०। Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[352]

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444