________________
३५२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[वा] वा प्रथमा सि ।
[द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः] द्वाभ्यां वर्षाभ्यां निर्वृत्तः । द्वौ वर्षों द्वे वर्षे वा भूतो भावी वा । द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा = द्विवर्षः-द्विवर्षीणः । अनेन अ-ईनप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'र-वर्णान्नो ण' (२।३।६३) न० →ण० । एवम्- द्विवार्षिक: । [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । 'संख्या-ऽधिकाभ्यां वर्षस्याऽभाविनि' (७।४।१८) इत्यनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् ।
[त्रिवर्षः, त्रिवर्षीणः, त्रिवार्षिकः] त्रिभिर्वनिर्वृत्तः । त्रयो वर्षा (त्रीन् वर्षान्) तिस्रो वर्षा वा भूतो भावी वा । त्रिभिः(त्रिभ्यः) वर्षेः (वर्षेभ्यः) भृतोऽधीष्टो वा = त्रिवर्षः-त्रिवर्षीणः । अनेन अ-ईनप्र० । 'अवर्णेवर्णस्य' (७४।६८) अवर्णस्य लुक् । एवम्-त्रिवार्षिक: । [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिभिः सूत्रैः इकण्प्र० → इक । 'संख्याऽधिकाभ्यां ०' (७।४।१८) इत्यनेन उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् ।
भाविनि तु उत्तरपदवृद्धिनिषेधात्
[द्वैवर्षिकः] द्वौ वर्षों भावी = द्वैवर्षिक: । 'तं भावि-भूते' (६।४।१०६) इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
प्राणिनि भूते ॥ ६।४।११२ ॥ [प्राणिनि ] प्राणिन् सप्तमी ङि । [ भूते ] भूत पञ्चमी ङसि ।
[द्विवर्षों दारकः] द्वे वर्षे भूतः प्राप्तः = द्विवर्षः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'दृश् विदारणे' (१५३५) दृ । दृणाति-विदारयति शोकं जनकादीनामिति दारकः । 'णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः आर् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[त्रिवर्षो वत्सः] त्रीणि वर्षाणि भूतः प्राप्तः = त्रिवर्षः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७।४६८) अलुक् । वत्सः ।
[द्विवर्षः, द्विवर्षीणः, द्विवार्षिकः सरकः] द्वौ वर्षों, द्वे वर्षे वा भूतः प्राप्तः = द्विवर्षः, द्विवर्षीणः । 'वर्षादश्च वा' (६।४।१११) अ-ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । एवम्-द्विवार्षिकः । 'निर्वृत्ते' (६।४।१०५) 'तं भावि-भूते' (६।४।१०६) इकण्प्र० → इक । 'संख्या-ऽधिकाभ्यां वर्षस्याऽभाविनि' (७।४।१८) उत्तरपदवृद्धिः ।
[द्विवर्षः, द्विवर्षीणः, द्विवार्षिको मनुष्यः] द्वे वर्षे भावी । द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा = द्विवर्षः । 'वर्षादश्च वा' (६।४।१११) अ-ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । एवम्-द्विवार्षिक: । [तेन] 'निर्वृत्ते' (६।४।१०५) इत्यादिसूत्रैः इकण्प्र० → इक । 'संख्या-ऽधिकाभ्यां ०' (७४।१८) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । मनुष्यः ॥छ।।
मासाद् वयसि यः ॥ ६।४।११३ ॥
[मासात् ] मास पञ्चमी ङसि । [वयसि] वयस् सप्तमी ङि । [यः] य प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[352]