________________
३३८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[चान्द्रायणिकः] चन्द्र 'अयि गतौ' (७९०) अय् । चन्द्रेण अय्यते-ज्ञायते = चन्द्रायणम् । अनट्प्र० → अन । 'पूर्वपदस्थान्नाम्न्यगः' (२।३।६४) णत्वम् । चन्द्रायणं चरति = चान्द्रायणिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[द्वैचन्द्रायणिकः] द्वे चन्द्रायणे चरति = द्वैचन्द्रायणिकः । अनेन इकण्प्र० → इक । वृद्धिः । आर्हदर्थानुवृत्त्या 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) लुप् न भवति ।
[पारायणिकः] पारायणमधीते = पारायणिकः । 'तुरायण-पारायणं यजमाना-ऽधीयाने' (६।४।९२) इकण्प्र० → इक। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[द्वैपारायणिकः] द्वे पारायणे अधीते = द्वैपारायणिकः । 'तुरायण-पारायणं यजमाना-ऽधीयाने' (६४।९२) इकणप्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[ परमपारायणमधीते ] परमं च तत् पारायणं च = परमपारायणम्, तमधीते ।
[महापारायणमधीते ] महत्-पारायण । महच्च तत् पारायणं च = महापारायणः(णम्), तमधीते । 'जातीयैकार्थेऽच्चेः' (३।२१७०) डा० → आ० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अल्लुक् ।
[द्विसाहस्रः] द्वि-सहस्र । द्वे सहस्रे, द्वाभ्यामधिकं सहस्रं = द्विसहस्रम् । 'मयूरव्यंसकेत्यादयः' (३।१।११६) समासः । 'सहस्र-शतमानादण' (६।४।१३६) । अण्प्र० । 'नवाऽणः' (६।४।१४२) वाऽण् लुप् । द्वयोः सहस्रं, द्वे सहस्रे यस्येति वा द्विसहस्रं वा अर्हति = द्विसाहस्रः । आईदर्थे अण्प्र० + अ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[द्विशौर्पिकम् ] द्वाभ्यां शूर्पाभ्यां क्रीतं = द्विशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । 'अनाम्न्यद्विः प्लुप् (६।४।१४१) अञ्लुप् । द्विशूर्पण क्रीतं = द्विशौपिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'मानसंवत्सरस्याशाण-कुलिजस्याऽनाम्नि' (७।४।१९) उत्तरपदवृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[त्रिशौर्पिकम्] त्रिभिः शूपैः क्रीतं = त्रिशूर्पम् । 'शूर्पाद् वाऽज्' (६।४।१३७) अप्र० । 'अनाम्न्यद्विः प्लुप्' (६।४।१४१) अब्लुप् । पुनरपि त्रिशूर्पण क्रीतं = त्रिशौर्पिकम् । 'मूल्यैः क्रीते' (६।४।१५०) इकण्प्र० → इक । 'मानसंवत्सर०' (७।४।१९) उत्तरपदवृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । पुनरपि 'शूर्पाद् वाऽज्' (६।४।१३७) इत्यञ् न भवति ॥छ।
गोदानादीनां ब्रह्मचर्ये ॥ ६।४।८१ ॥ [गोदानादीनाम् ] गोदान(नं) आदिर्येषां ते = गोदानादयः तेषाम् । [ ब्रह्मचर्ये ] ब्रह्मचर्य सप्तमी ङि ।
[गौदानिकम् ] गोदान । गोदानस्य ब्रह्मचर्यं = गौदानिकम् । यावद् गोदानं न करोमि तावद् ब्रह्मचर्यमित्यर्थः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[आदित्यवतिकम् ] आदित्यव्रतानां ब्रह्मचर्यं करोति = आदित्यव्रतिकम् ।
[माहानाम्निकम् ] महानाम्न्यो नाम तं व्रतमपि महानाम्न्यः । महानाम्नीनां ब्रह्मचर्यं = माहानाम्निकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । 'तद्धिताऽककोपान्त्यपूरण्याख्याः ' (३।२।५४) इति द्वारेण पुंवन्निषेधः ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[338]|