SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३३७ सतीर्थ्यः ॥६।४।७८ ॥ [ सतीर्थ्यः] सतीर्थ्य प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [ सतीर्थ्यः] समानतीर्थे वसति । अनेन यप्र० - समानस्य च सभावः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । तीर्थमिह गुरुरुच्यते ॥छ।। प्रस्तार-संस्थान-तदन्त-कठिनान्तेभ्यो व्यवहरति ॥ ६।४।७९ ।। [प्रस्तारसंस्थानतदन्तकठिनान्तेभ्यः] प्रस्तृगश् आच्छादने' (१५२१) स्तु । प्रस्तरणं = प्रस्तारः । 'अयज्ञे स्त्रः' (५।३।६८) घञ्प्र० → अ । 'नामिनोऽकलि-हलेः' (४३५१) वृद्धिः आर् । प्रस्तारश्च संस्थानश्च = प्रस्तारसंस्थानौ । ते अन्ते येषां ते = तदन्ताः । कठिनोऽन्ते येषां ते = कठिनान्ताः । प्रस्तारसंस्थानौ च तदन्ताश्च कठिनान्ताश्च = प्रस्तारसंस्थानतदन्तकठिनान्ताः, तेभ्यः । [व्यवहरति] व्यवहरतीति व्यवहरत्, तस्मिन् । [प्रास्तारिकः] प्रस्तारे व्यवहरति = प्रास्तारिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। यथावस्थानं करोतीत्यर्थः । [सांस्थानिकः] संस्थाने व्यवहरति = सांस्थानिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । [कांस्यप्रस्तारिकः] कांस्यप्रस्तारे व्यवहरति = कांस्यप्रस्तारिकः । अनेन इकण्प्र० , इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [लौहप्रस्तारिकः] लोहप्रस्तारे व्यवहरति = लौहप्रस्तारिकः । अनेन इकण्प्र० - इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [गौसंस्थानिकः] गवां संस्थानं = गोसंस्थानम् । गोसंस्थाने व्यवहरति = गौसंस्थानिकः । अनेन इकणप्र० , इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । _ [आश्वसंस्थानिकः] अश्वानां संस्थानमश्वसंस्थानम् । अश्वसंस्थाने व्यवहरति = आश्वसंस्थानिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । कठिनान्त-[वांशकठिनिकः] वंशकठिने व्यवहरति = वांशकठिनिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [वार्धकठिनिकः] वर्धकठिने भवः(व्यवहरति) = वार्धकठिनिकः । अनेन इकण्प्र० → इक । 'वृद्धि: स्वरेष्वादेफिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।। संख्यादेश्चाऽऽर्हदलुचः ॥ ६।४।८० ॥ [संख्यादेश्च] संख्या आदिर्यस्य सः = संख्यादिः, तस्मात् । च प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [आर्हत् ] अर्हत आ = आर्हत् । तस्मात् । पञ्चमी ङसि । सूत्रत्वाल्लुप् । [अलुचः] न विद्यते लुप्(ग्) यस्याः सा = अलुक्, तस्याः । प्र श० म० न्या० - आ अर्हतः = आहेत् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [337]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy